खित्यनव्ययस्य

6-3-66 खिति अनव्ययस्य उत्तरपदे ह्रस्वः

Kashika

Up

index: 6.3.66 sutra: खित्यनव्ययस्य


खिदन्ते उत्तरपदेऽनव्ययस्य ह्रस्वो भवति। कालिंमन्या। हरिणिम्मन्या। मुमा ह्रस्वो न बाध्यते, अन्यथा हि ह्रस्वशासनमनर्थकं स्यात्। अनव्ययस्य इति किम्? दोषामन्यमहः। दिवामन्या रात्रिः। अनव्ययस्य इत्येतदेव ज्ञापकम् इह खिदन्तग्रहणस्य।

Siddhanta Kaumudi

Up

index: 6.3.66 sutra: खित्यनव्ययस्य


खिदन्ते परे पूर्वपदस्य ह्रस्वः स्यात् । ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धंजहा माषाः । शर्धोऽपानशब्दः तं जहतीति विग्रहः । जहातिरन्तर्भावितण्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.66 sutra: खित्यनव्ययस्य


खिदन्ते परे पूर्वपदस्य ह्रस्वः। ततो मुम्। कालिम्मन्या॥

Balamanorama

Up

index: 6.3.66 sutra: खित्यनव्ययस्य


खित्यनव्ययस्य - खित्यनव्ययस्य । ह्रस्वः स्यादिति ।इको ह्रस्वोऽङ्यो गालवस्य॑ इत्यतस्तदनुवृत्तेरिति भावः । अत्र ह्रस्वश्रुत्या अच इत्युपस्थितं द्रष्टव्यम् । ततो मुमिति । पूर्वं ह्रस्वे कृते ततो मुमित्यर्थः । पूर्वं मुमि कृते तु अजन्तत्वाऽभावाद्ध्रस्वो न स्यादिति भावः । शर्धञ्जहा माषा इति । भाष्ये तु 'मृगा' इति पाठः । शर्द्धः अपानद्वारे स्थितः शब्द इति माधवादयः । अन्तर्भावितेति । तथा च शद्र्ध हापयन्तीति विग्रहः फलितः । भाष्ये तुवातशुनी॑इति वार्तिके गर्धे॑ष्विति पठितम् ।

Padamanjari

Up

index: 6.3.66 sutra: खित्यनव्ययस्य


इकह ह्रस्वश्रुत्या अचः इत्युपस्थाप्यते । तत्र यदि पूर्वपदेनाज्विशेष्येत पूर्वपदस्याचो ह्रस्वो भवति यत्र स्थितस्येति, ततो वाड्मन्य इत्यादावपि प्राप्नोति, तस्मादचा पूर्वपदं विशेष्यते - अजन्तस्य पूर्वपदस्येति । तत्र कालिम्मन्येत्यादावपि मुमि कृतेऽजन्तत्वाभावाद् ह्रस्वाभाव इत्यत ताअह - मुमा ह्रस्वो न बाध्यत इति । कुतः इत्यत आह - अन्यथा हीति । उच्यते चेदम् - अजन्तस्य ह्रस्व इति, यदि पूर्वं मुम् स्याद्वचनमिदमनर्थकं स्यात् । तस्मान्मुमा ह्रस्वो न बाध्यते । कथं पुनर्मुमा ह्रस्वबाधः शाङ्कितः, यावता स्तनन्धयादौ चरितार्थस्य मुमः कालिम्मन्यत्यादौ ह्रस्वेनैव बाधः शङ्कनीयः तस्मादयमस्यार्थः - यथा पूर्वं मुमा ह्रस्वो न बाध्यते, तथा सूत्रस्यार्थो वर्णनीयः - अजन्तस्य ह्रस्वो विधेयः, न तु पूर्वपदसम्बन्धिनोऽचो ह्रस्व इति । तस्मिन्पक्षे मुमि कृतेऽपि ह्रस्वप्रवृत्तिसम्भवादनवकाशत्वाभावात् मुमि कृते पश्चाद्ध्रस्वः स्यात्, पूर्वं तु मुमा बाध्येतेति । यत्पुनरुक्कम् - मुम एव ह्रस्वेन बाधः शङ्कनीय इति अत्र परिहारमुतरसूत्रे वक्ष्यति । कथं पुनरत्र खिदन्तस्य ग्रहणम्, यावता ज्ञापितमेतदुतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न भवति तत्राह - अन्वययस्येत्येतदेवेति । धातोरेव खितो विधानान्नाव्ययात्परः खित्प्रत्ययः सम्भवति । तस्मादव्ययप्रतिषेधादत्र तदान्तग्रहणमित्यर्थः ॥