इष्टकेषीकामालानां चिततूलभारिषु

6-3-65 इष्टकेषीकामालानां चिततूलभारिषु उत्तरपदे ह्रस्वः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इष्टकेषीकामालानां चित तूल भारिन् इत्येतेषूत्तरपदेषु यथासंख्यं ह्रस्वो भवति। इष्टकचितम्। इषीकतूलम्। मालभारिणी कन्या। इष्टकादिभ्यस्तदन्तस्यापि ग्रहणं भवति। पक्वेष्टकचितम्। मुञ्जेषीकतूलम्। उत्पलमालभारिणी कन्या॥

Siddhanta Kaumudi

Up

इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारि । उत्पलमालभारि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इष्टकेषीकामालानां चिततूलभारिषु>> - इष्टकेषीका । उत्तरपदे इत्यधिकृतम् । तल्लब्धं पूर्वपदमिष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यपदेशिवद्भावात्तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात्पदाङ्गधिकारे तस्य तदन्तस्य चे॑ति वचनेन वा तेषां ग्रहणम् । 'इको ह्रस्वः' इत्यतो ह्रस्व इत्यनुवर्तते । तदाह — इष्टकादीनां तदन्तानां चेति । इष्टकचितमिति । इष्टकादिभिश्चितमिति विग्रहः ।कर्तृकरणे कृते॑ति समासः । तदन्तविधेः प्रयोजनमाह — पक्वेष्टकचितमिति । इषीकातूलमिति । इषीकायास्तूलमिति विग्रहः । तूलमग्रं । शष्पमित्यन्ये । मुञ्जेषीततूलमिति । मुञ्जेषीकायास्तूलमिति विग्रहः । मालभारीति । 'सुप्यजातौ' इति णिनिः । [सूत्रे]हारिष्विति पाठान्तरम् ।

Padamanjari

Up

इष्टकचितमिति । कर्तृकरणे कृता बहुलम् इति समासः । इषीकतूलमिति । षष्ठीसमासः । मालाम्बिभर्तीते मालभारिणी, सुप्यजातौ इति णिनिः । प्रायेण तु हरतिमधीयते, प्रयोगस्तु बिभर्तेः, गाल्लिका मालभारिण्य इति । इष्टकादिभिस्तदन्तस्यापि ग्रहणं भवतीति । यथा तु भवति, तथा अलुक्प्रकरण एवोक्तम् ॥