त्वे च

6-3-64 त्वे च उत्तरपदे ह्रस्वः बहुलम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

त्वप्रत्यये परतो ङ्यापोर्बहुलं ह्रस्वो भवति। तदजाया भावोऽजत्वम्, अजात्वम्। तद्रोहिण्या भावो रोहिणित्वम्, रोहिणीत्वम् (काठ० सं० ८.१)। संज्ञायामसंभवात् छन्दस्येवोदाहरणानि भवन्ति॥

Siddhanta Kaumudi

Up

त्वप्रत्यये ङ्यापोर्वा ह्रस्वः । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<त्वे च>> - त्वे च । शेषपूरणेन सूत्रं व्याचष्टे — त्वप्रत्यये ङ्यापोर्वा ह्रस्व इति । अजत्वं रोहिणित्वमिति । संज्ञात्वाऽभावाच्छन्दस्येवाऽयमिति वृत्तिः । अनुत्तरपदार्थं वचनम् ।

Padamanjari

Up