एक तद्धिते च

6-3-62 एकतद्धिते च उत्तरपदे ह्रस्वः

Kashika

Up

index: 6.3.62 sutra: एक तद्धिते च


एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति। एकस्या आगतम् एकरूप्यम्। एकमयम्। एकस्य भावः एकत्वम्। एकता। उत्तरपदे एकस्याः क्षीरम् एकक्षीरम्। एकदुग्धम्। लिङ्गविशिष्टस्य ग्रहणम् एकशब्दह्रस्वत्वं प्रयोजयति। अचा हि गृह्यमाणमत्र विशेष्यते, न पुनरच् गृह्यमाणेन इति।

Siddhanta Kaumudi

Up

index: 6.3.62 sutra: एक तद्धिते च


एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् ॥

Balamanorama

Up

index: 6.3.62 sutra: एक तद्धिते च


एक तद्धिते च - एक तद्धिते च । एकेति लुप्तषष्ठीकम् । तदाह — एकशब्दस्येति ।स्त्रीप्रत्ययान्तस्ये॑ति शेषः, अन्यथा ह्रस्वविधिवैयथ्र्यात् । उत्तरपदे चेति । चकारात्तदनुकर्ष इति भावः । एकरूप्यमिति ।हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॑ । एकक्षीरमिति । एकश्याः क्षीरमिति विग्रहः ।

Padamanjari

Up

index: 6.3.62 sutra: एक तद्धिते च


एक इत्यविभक्तिको निर्देशः, समानाधिकरणे हि स्त्रियाः पुंवद्भावेनैव सिद्धत्वात् । व्यधिकरणार्थमिदम् । एकत्वमिति । असहायादिवचनोऽयमेकशब्दः । संख्यावचनस्य तु त्वतलोर्गुणवचनस्य इति पुंवद्भावेनैव सिद्धम् । किं पुनः कारणं स्त्रीलिङ्ग एवोदाह्रियते, न पुनर्यथाश्रुतः पुंल्लिङ्गो नपुंसकलिङ्गो वेति तत्राह - लिङ्गविशिष्टस्यति । स्त्रीलिङ्गस्यैव ह्रस्वविधानमर्थवद् भवति, नेतरस्य, तस्य स्वत एव ह्रस्वान्तत्वात् । ननु चारस्तु स्वत एवान्तो ह्रस्वः, यस्तवसावादिरेकारः, तदर्थमितरस्यापि ग्रहणमर्थवत् अत आह - अचेति । स्यादेतदेवम्, यदि गृह्यमाणेनैकशब्देन अचश्च इत्युपस्थापितोऽज्विशेष्येत - एकशब्दस्य योऽच् यत्र कुत्र स्थित इति, इह तूपस्थापितेनाचा गृह्यमाण एकशब्दो विशेष्यते एकस्य ह्रस्वो भवति । किंविशिष्टस्य अचः अजन्तस्येति । तत्र अलोन्त्यस्य इत्यन्त्यस्य ह्रस्वेन भाव्यम्, तच्च टाबन्तस्यैवार्थवत्, नेतरस्य । इतिकरणो एहेतौ ॥