6-3-61 इकः ह्रस्वः अङ्यः गालवस्य उत्तरपदे अन्यतरस्याम्
इगन्तस्याङ्यन्तस्योत्तरपदे ह्रस्वो भवति गालवस्याचार्यस्य मतेनान्यतरस्याम्। ग्रामणिपुत्रः, ग्रामणीपुत्रः। ब्रह्मबन्धुपुत्रः,ब्रह्मबन्धूपुत्रः। इक इति किम्? खट्वापादः। मालापादः। अङ्य इति किम्? गार्गीपुत्रः। वात्सीपुत्रः। गालवग्रहणं पूजार्थम्। अन्यतरस्यामिति हि वर्तते। व्यवस्थितविभाषा चेयम्। तेनेह न भवति — कारीषगन्धीपुत्र इति। इयङुवङ्भाविनामव्ययानां च न भवति। श्रीकुलम्। भ्रूकुलम्। काण्डीभूतम्। वृषलीभूतम्। भ्रूकुंसादीनां तु भवत्येव। भ्रुकुंसः। भ्रुकुटिः। अपर आह॥ भ्रुकुंसादीनामकारो भवतीति वक्तव्यम्॥ भ्रकुंसः। भ्रकुटिः॥
इगन्तस्याङ्यन्तस्य ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ।<!इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् !> (वार्तिकम्) ॥ श्रीमदः । भ्रूभङ्गः । शुक्लीभावः ।<!अभ्रुकुंसादीनामिति वक्तव्यम् !> (वार्तिकम्) ॥ भ्रुकुंसः । भ्रुकुटिः । भ्रूकुंसः । भ्रूकुटिः । अकारोऽनेन विधीयत इति व्याख्यान्तरम् । भ्रकुंसः । भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रुवः कुटिः कौटिल्यम् ॥
<<इको ह्रस्वोऽङ्यो गालवस्य>> - इको ह्रस्वो । अङ्य इति च्छेदः । ग्रामणीपत्र इति । कर्मधारयः, षष्ठीसमासो वा । नीधातोरीकारोऽयं, नतु ङीप्प्रत्यय इति भावः । ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह — अन्यतरस्यामित्यनुवृत्तेरिति । इयङुवङ्भाविनामिति । तदर्हाणामित्यर्थः । श्रीमदः भ्रूभङ्ग इति । श्रीभ्रूशब्दौ अजादिप्रत्यये परे इयङुवङ्र्हाविति भावः । शुक्लीभाव इति । अभूततद्भावे च्विप्रत्यये 'अस्य च्वौ' इति ईत्त्वम् । 'च्वौ' इति दीर्घः । ऊर्यादिच्विडाचश्चे॑ति निपातत्वादव्ययत्वमिति भावः । अभ्रूकुंसादीनामिति । भ्रूशब्दस्य उवङ्भावितया ह्रस्वनिषेधो यः प्राप्तः स नेत्यर्थः । अकारोऽनेनेति ।अ भ्रूकुंसादीना॑मिति वार्तिके 'अ' इति लुप्तप्रथमाकं पृथक्पदम् । तथा च भ्रूकुंसादीनामवयवो यो भ्रूशब्दस्तस्य अकारोऽन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः । भ्रुवा कुंसो भाषणमिति । तत्तदर्थज्ञापनमित्यर्थः ।भ्रुकुंसश्च भ्रुकुंसश्च भ्रूकुसश्चेति नर्तकः॑ इत्यमरः,भ्रकुटिर्भ्रुंकुटिर्भ्रूकुटिः स्त्रियामि॑ति च ।
ग्रामणिपुत्र इति । सत्सूद्विष इत्यादिना क्विप्, अग्रग्रमाभ्यान्नयतेः इति णत्वम् । गार्गीपुत्र इति । गार्ग्यशब्दाद् यञश्चेति ङीप् यस्येति च, हलस्तद्धितस्य । कारीषगन्धीपुत्र इति । ष्यङः संप्रसारणम् संप्रसारथणस्यः इति दीर्घः । काण्डीभूतमिति । ऊर्यादिज्विडाश्चेति निपातसंज्ञायामव्ययत्वम् । स्त्रीवेषधारी नर्तकः पुस्षः भ्रुकुअंसः । इहालाबुकर्कन्धुजम्बुफलमिति फलशब्द उतरपदे जम्ब्वा ह्रस्वत्वम्, द्वन्द्वे जम्ब्वामुतरपदे कर्कन्ध्वा ह्रस्वत्वम्, अलाब्वास्तु न प्राप्नोति, कर्कन्ध्व अनुतरपदत्वात् एवं तर्ह्येवं विग्रहः करिष्यते - अलाबूश्च कर्कन्धूश्च अलाबुकर्कन्धवौ, ते च जम्बूश्च अलाबुकर्कन्धुजम्ब्वः, तासां फलमलाबुकर्कन्धुजम्बुफलमिति, एवमपि जम्ब्वाः पूर्वनिपातः प्राप्नोति । एवं कर्कन्धुजम्ब्वोरपि द्वन्द्वे द्रष्टव्यम् । जम्बुशब्दो जम्बुशब्दो राजदन्तादिषु द्रष्टव्यः ॥