मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च

6-3-60 मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च उत्तरपदे उदकस्य उदः अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषुत्तरपदेषूदकस्य उद इत्ययमादेशो भवत्यन्यतरस्याम्। उदकेन मन्थ उदमन्थः, उदकमन्थः। ओदन — उदकेनौदन उदौदनः, उदकौदनः। सक्तु — उदकेन सक्तु ः उदसक्तु ः, उदकसक्तु ः। बिन्दु — उदकस्य बिन्दुः उदबिन्दुः, उदकबिन्दुः। वज्र — उदकस्य वज्र उदवज्रः, उदकवज्रः। भार — उदकं बिभर्तीति उदभारः, उदकभारः। हार — उदकं हरतीति उदहारः, उदकहारः। वीवध — उदकस्य वीवध उदवीवधः, उदकवीवधः। गाह — उदकं गाहत इति उदगाहः, उकदगाहः॥

Siddhanta Kaumudi

Up

उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च>> - मन्थौदन ।उदकस्य उदादेशो वे॑ति शेषः । अपूरयितव्यार्थं वचनम् । उदमन्थ उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः । भर्जितयवपिष्टानि-सक्तवः । उदौदन उदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसक्तवः, उदकसक्तवः । उदबिन्दवः, उदकबिन्दवः । उदवज्रः, उदकवज्रः । उदभारः, उदकभारः । उदहारः, उदकहारः । उदवीवधः, उदकवीवधः । उदगाहः, उदकगाहः । वीवधस्तु जलाद्याहरणयोग्य उभयतःशिक्यः स्कन्तबाह्रः काष्ठविशेषः ।

Padamanjari

Up

द्रवद्रव्यसंयुक्ताः सक्तवः - मन्थः । उदकेन मन्थ इति । तृतीयेति योगविभागात्समासः । अथ प्रथ्यत इति क्रियाशब्दः, तदा कर्तृकरणे कृता बहुलम् इत् समासः, सक्त्वौदनाभ्यामन्नेन व्यञ्चनम् इति, बिन्दुवज्रवीवधैः षष्ठीति भारहारगाहैः कर्मण्यणन्तैः उपपदमतिङ् इति समासः, उदकस्य वज्रं क्रूरम्, यदपां क्रूरमिति दर्शनात् । अन्येऽपि यथासम्भवं समासा भवन्त्येव उदकं वज्रमिव भिन्दानो दृदयमसाहिनोदवज्रः ॥