6-3-59 एकहलादौ पूरयितव्ये अन्यतरस्याम् उत्तरपदे उदकस्य उदः
उदकस्योद इति वर्तते। एकोऽसहायः, तुल्यजातीयेनानन्तरेण हला विना, हल् आदिर्यस्योत्तरपदस्य तदेकहलादिस्तस्मिन्नेकहलादौ पूरयितव्यवाचिन्यन्यतरस्यामुदकस्य उद इत्ययमादेशो भवति। उदकुम्भः, उदककुम्भः। उदपात्रम्, उदकपात्रम्। एकहलादाविति किम्? उदकस्थालम्। पूरयितव्य इति किम्? उदकपर्वतः॥
उदकुम्भः । उदककुम्भः । एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः ॥
<<एकहलादौ पूरयितव्येऽन्यतरस्याम्>> - एकहलादौ । हस्त्वस्य एकैकवर्मधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते । पूरयितव्यं=पूरणार्हं कुम्भादि । असंयुक्तहलादौ पूरयितव्यवाचके उत्तरपदे परे उदकस्य उद इत्यादेशः स्यादित्यर्थः ।
एकोऽसहाय इति । यद्ययमेकशब्दः संख्यावचनः स्यात्, तर्ह्येकेत्यनर्थकं स्यात्, न हि द्वौ च बहवौ वा आदिभूताः क्वचित्सम्भवन्ति, तस्मादसहायवचन एकशब्दः । नन्वेवमप्यस्य व्यावर्त्य न सम्भवति, कथम् एकैकवर्णवशवर्तित्वाद्वाचः, यदि ह्यनेकस्य वर्णस्य युगपदुच्चारणं स्यात्त्दा स्थालीशब्दोऽनेकहलादिः, यदि वा क्रमेणोच्चारिता अपि वर्णा अवतिष्ठेरन्, तदापि युगापद्वर्णयोरुपलम्भादादित्वं स्यात्, यत्स्तु नोञ्चारणे युगपदुलब्धौ वा वर्णानां यौगपद्यम्, तस्मादेकस्यैवादित्वमिति न किञ्चिदेकग्रहणेन शक्यं व्यवच्छेतुम् एवं तर्ह्येकग्रहणसामर्थ्याद्विशिष्टमसहायत्वामाश्रीयते । किं पुनस्तत् आनन्तर्यम् । तदेतदाह - तुल्यजातीयेनानन्तरेणेति । हल्ल्वेन तुल्यजातीयत्वेन तुल्यास्थानादिभिर्भिन्नजातीय् व्यवहिते च सद्दायत्वाप्रसिद्धरेवमुक्तम् ॥