आत्मनश्च पूरणे

6-3-6 आत्मनः च अलुक् उत्तरपदे तृतीयायाः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आत्मन उत्तरस्यास्तृतीयायाः पूरणप्रत्ययान्त उत्तरपदेऽलुग् भवति। आत्मनापञ्चमः। आत्मनाषष्ठः। <<तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम्>>(२.३.१८. वा॰) इति तृतीया। तृतीयेति योगविभागात् समासः। आत्मना वा कृतः पञ्चम आत्मनापञ्चमः। कथं जनार्दनस्त्वात्मचतुर्थ एवेति? बहुव्रीहिरयमात्मा चतुर्थोऽस्यासावात्मचतुर्थः॥

Siddhanta Kaumudi

Up

आत्मनस्तृतीयाया अलुक्स्यात् ॥<!पूरण इति वक्तव्यम् !> (वार्तिकम्) ॥ पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः । जनार्दनस्त्वामात्मचतुर्थ एवेति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

वार्तिकमेवेदं सूत्ररुपेण पठितम् । पूरणशब्दस्य स्वरितत्वातदधिकारविहितानां प्रत्ययानामत्र ग्रहणं न स्वरुपस्य ग्रहणमित्याह - पॄअणप्रत्ययान्त इति । यद्यप्युतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न भवतीति दृदयस्य दृल्लेख इत्यत्र ज्ञापयिष्यते, तथाप्यात्मन्शब्दात् पूर्णप्रत्ययस्यासम्भवात्सामर्थ्यादत्र तदन्तविधिः । आत्माना वा कृत इति । वृतौ कृतार्थस्यान्तर्भावात् कर्तरि करणे वा तृतीया, तृतीया तत्कृतार्थेन इति समासः, यथा - कुङ्कमलोहितादावित्यर्थः । आत्मा चतुर्थो यस्येति । एकस्यापि वस्तुनो बुद्धिपरिकल्पितविभेदस्य वतिपदार्थत्वम्, तान्यपदार्थत्वं चाविरुद्धम् ॥