पेषंवासवाहनधिषु च

6-3-58 पेषंवासवाहनधिषु च उत्तरपदे उदकस्य उदः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पेषं वास वाहन धि इत्येतेषु चोत्तरपदेषु उदकस्य उद इत्ययमादेशो भवति। उदपेषं पिनष्टि। <<स्नेहने पिषः>>३.४.३८ इति णमुल्। वास — उदकस्य वास उदवासः। वाहन — उदकस्य वाहन उदवाहनः। उदकं धीयतेऽस्मिन्नित्युदधिः॥

Siddhanta Kaumudi

Up

उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पेषंवासवाहनधिषु च>> - पेषंवास ।पेष॑मिति णमुलन्तमव्ययम् । तस्मन्वासवाहनधिषु च परत उदकशब्दस्य उदः स्यादित्यर्थः । असंज्ञार्थं वचनम् । उदपेषं पिनष्टीति । उदकेन पिनष्टीत्यर्थः । 'स्नेहने पिषः' इति णमुल् । कषादिषु यताविध्यनुप्रयोगः । उदवास इति । उदकस्य वास इति विग्रहः । उदवाहन इति । करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति उदकंधीयतेऽस्मिन्निति विग्रहः ।कर्मण्यधिकरणे चे॑ति किप्रत्ययः । असंज्ञात्वास्फोरणाय 'घट' इति विशेष्यम् । समुद्रे त्विति । तत्र उदधिशब्दस्य संज्ञात्वेन 'उदकस्योदः' इति पूर्वसूत्रेण सिद्धमित्यर्थः ।

Padamanjari

Up

असंज्ञार्यमिदम् । उदधिरिति । कर्मण्यधिकरणे च चेति किप्रत्ययः । घटादिरत्रोदधिः, समुद्रे पूर्वेणैव सिद्धेः ॥