उदकस्योदः संज्ञायाम्

6-3-57 उदकस्य उदः सञ्ज्ञायाम् उत्तरपदे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उदकशब्दस्य संज्ञायां विषय उद इत्ययमादेशो भवत्युत्तरपदे परतः। उदमेघो नाम यस्य औदमेघिः पुत्रः। उदवाहो नाम यस्य औदवाहिः पुत्रः। संज्ञायामिति किम् ? उदकगिरिः॥ संज्ञायामुत्तरपदस्य उदकशब्दस्य उदादेशो भवतीति वक्तव्यम्॥ लोहितोदः। नीलोदः। क्षीरोदः॥

Siddhanta Kaumudi

Up

उदमेघः ।<!उत्तरपदस्य चेति वक्तव्यम् !> (वार्तिकम्) ॥ क्षीरोदः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उदकस्योदः संज्ञायाम्>> - उदकस्योदः । उदकशब्दस्य 'उद' इत्यादेशः स्यादुत्तरपदे संज्ञायामित्यर्थः । उदमेघ इति । उदकपूर्णमेघसादृश्यात्कस्यचिदियं संज्ञा । उत्तरपदस्य चेति । उत्तरपदस्य उदकशब्दस्य उदैत्यादेशः स्यात्संज्ञायामित्यर्थः । क्षीरोद इति । क्षीरमुदकस्थानीयं यस्येति विग्रहः । 'क्षीरोदं सरः' इति त्वसाध्वे, असंज्ञात्वात् ।

Padamanjari

Up

उदमेघ इति । षष्ठीसमासः, सादृश्यात्पुरुषस्य संज्ञा, पितुरप्रसिद्धत्वात्पुत्रेण व्यपदेशः। उदकं वहतीति एकर्मण्यण् - उदवाहः । क्षीरोद इति बहुव्रीहिः । अत्र केचिदाहुः - उदकशब्देन समानार्थ उदशब्दोऽस्ति, तथा च संज्ञायामपि प्रयुज्यते - अप्रसन्नोद इति । इदं वचनं संज्ञायामुदकशब्दस्य प्रयोगनिवृत्यर्थमिति । एवं तु वक्ष्यमाणो विकल्पोऽनर्थकः स्यात् ॥