वा घोषमिश्रशब्देषु

6-3-56 वा घोषमिश्रशब्देषु उत्तरपदे पादस्य पद्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

घोष मिश्र शब्द इत्येतेषु चोत्तरपदेषु पादस्य वा पदित्ययमादेशो भवति। पद्घोषः, पादघोषः। पन्मिश्रः, पादमिश्रः। पच्छब्दः, पादशब्दः॥ निष्के चेति वक्त व्यम्॥ पन्निष्कः, पादनिष्कः॥

Siddhanta Kaumudi

Up

पादस्य पत् । पद्घोषः । पादघोषः । पन्मिश्र । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ ।<!निष्के चेति वाच्यम् !> (वार्तिकम्) ॥ पन्निष्कः । पादनिष्कः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वा घोषमिश्रशब्देषु>> - वा घोष । शेषपूरणेन सूत्रं व्याचष्टे-पादस्य पदिति । निष्के चेति ।पादस्य प॑दिति शेषः ।

Padamanjari

Up

पन्निष्क इति । निष्कशब्दः सुवर्णजातिवचनः, पादशब्दः परिमाणवचनः, कर्मधारयः समासः ॥