6-3-55 ऋचः शे उत्तरपदे पादस्य पद्
ऋक्संबन्धिनः पादशब्दस्य शे परतः पदित्ययमादेशो भवति। पच्छो गायत्रीं शंसति। पादंपादं शंसतीति <<संख्यैकवचनाच्च वीप्सायाम्>> ५.४.४३ इति शस्प्रत्ययः। ऋच इति किम्? पादशःकार्षापणं ददातीति॥
ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादं पादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति ॥
<<ऋचः शे>> - ऋचः शे । शस्य शस्प्रत्ययैकदेशस्यानुकरणात्सप्तमीत्यभिप्रेत्योदारति — पच्छ इति ।सङ्ख्यैकवचनाच्च वीप्साया॑मिति पादशब्दाच्छस् । तद्दितश्चासर्वविभक्ति॑रित्यव्ययत्वम्, नत्विह लोमादिशस्य ग्रहणं, लोमादौ पादशब्दस्य पाठाऽभावात् । पादशः कार्षापणं ददातीति । कार्षापणाख्यापरिमाणविशेषं सुवरह्णादिकं पादं पदां ददातीत्यर्थः ।
शे इति शस्प्रत्ययस्येदमेकदेशानुकरणम्, अन्यस्य शशब्दस्या सम्भवात् । ननु च सम्भवत्ययम्, पादे शेते अधिकरणे शेतेः इत्यच् पादश इति । नास्त्यस्य सम्भवः, न हि ऋक्पादे कश्चिच्छेते । यच्च लोमादिभ्यः एशः, तस्याप्यसम्भव तएव लोमादिषु पादशब्दस्याभावात् ॥