6-3-54 हिमकाषिहतिषु च उत्तरपदे पादस्य पद्
हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययमादेशो भवति। हिम — पद्धिमम्। काषिन् — अथ पत्काषिणो यान्ति। हति — पद्धतिः॥
पद्धिमम् । पत्काषी । पद्धतिः ॥
<<हिमकाषिहतिषु च>> - हिमकाषि । एषु परेषु पादस्य पत्स्यादित्यर्थः । पद्धिममिति । पादस्य हिममिति विग्रहः । पत्काषीति । पादौ पादाभ्यां वा कषतीत्यर्थः । 'सुप्यजातौ' इति णिनिः । पद्धतिरिति । हन्यते इति हतिः । कर्मणि क्तिन् । पादाभ्यां हतिरिति विग्रहः ।कर्तृकरणे कृते॑ति समासः ।
पादस्य हिमं शीतं पद्धिमम् । पादौ कषन्तीति पत्काषिणः - पादचारिणः । सुप्यजातौ इति णिनिः । पादाभ्यां हन्यत इति पद्धतिः ॥