6-3-52 पादस्य पदाज्यातिगोपहतेषु उत्तरपदे
पादस्य पद इत्ययमादेशो भवति आजि आति ग उपहत इत्येतेषूत्तरपदेषु। पादाभ्यामजतीति पदाजिः। पादाभ्यामततीति पदातिः <<अज्यतिभ्यां>>, <<पादे च>> (प० उ० ४.१३२, १३३) इत्यौणादिक इण् प्रत्ययः। तत्राजेर्वीभावो न भवत्यत एव निपातनात्। पादाभ्यां गच्छतीति पदगः। पादेनोपहतः पदोपहतः। पादशब्दो वृषादित्वाद् ६.१.२०३ आद्युदात्तः, तस्य स्थाने पदादेश उपदेश एवान्तोदात्तो निपात्यते। तेन प॒दोप॑हत इति <<तृतीया कर्मणि>> ६.२.४८ इति पूर्वपदप्रकृतिस्वरत्वेनान्तोदात्तव्यं भवति। प॒दा॒जिः प॒दा॒तिः प॒द॒ग इत्येतेषु कृत्स्वरेण ६.२.१३९ समासस्यैवान्तोदात्तत्वम्॥
एषुत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे च <{SK570}> इतीण् प्रत्ययः । अजेर्व्याभावो निपातनात् । पदगः । पदोपहतः ॥
<<पादस्य पदाज्यातिगोपहतेषु>> - पादस्य पद ।पदे॑ति लुप्तप्रथमाकं पृथक्पदम् । एष्विति । आजि, आति, ग, उपहत-इत्येतेष्वित्यर्थः । अदन्त इति । उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादितिभावः । अजतीति ।अज गतिक्षेपणयोः॑ । पदातिरिति । पादाभ्यामततीति विग्रहः । 'अत गतौ' अज्यतिभ्यामिति । पादे उपपदे अजधातोरतधातोश्च इण्स्यादिति तदर्थः ।अजी॑त्यस्यअजेव्र्यघञपो॑रिति वीभावमाशङ्क्याह — अजेव्र्यभावो निपातनादिति । आजीति निर्देशादित्यर्थः । पदग इति । पादाभ्यां गच्छतीत्यर्थः ।गमश्च॑,अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॑ इति सूत्रस्थेनअन्येभ्योऽपि दृश्यते॑ इति वार्तिकेन गमधातोर्ङः । तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः । दकारान्तादेशे तु 'पद्ग' इति स्यात् । पदोपहत इति । पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्तादेशे 'पदुपहत' इति स्यात् ।
आकारान्तोऽयमादेशोऽविभक्तिकः । अज्यतिभ्यामिति । अज गतिक्षेपथणयोः, अत सातत्यगमने । पदग इति । डप्रकरणेऽन्यत्रापि दृश्यते इति डः । अपदेश एवेति । समसनक्रियानन्तरमेव प्रागेव समासस्य प्राप्तस्वरादित्यर्थः । अन्तोदातो निपात्यत इति । अन्यथाऽऽन्तर्यत आद्यौदातः स्यात् । तेनेत्यादिना अन्तोदातनिपातनस्य प्रयोजनमाह । पदाजिरित्यादिनोपदेशग्रहणस्य । यदि वृत्स्वरे कृते सत्युतरकाले पदशब्दोऽन्तोदात आदेशः स्यात्, तदा सतिशिष्टत्वातेन कृत्स्वरो बाध्येत । उपदेश एव त्वान्तोदातादेशे कृत्वस्वर एव सतिशिष्टो भवति । न चान्तोदातनिपात्नस्य वैयर्थ्यम, पदोपहत इत्यत्र श्रूसमाणत्वादिति पिण्डार्थः ॥