6-3-51 वा शोकष्यञ्रोगेषु उत्तरपदे हृदयस्य
शोक ष्यञ् रोग इत्येतेषु परतो हृदयस्य वा हृदित्ययमादेशो भवति। हृच्छोकः, हृदयशोकः। ष्यञ् — सौहार्द्यम्, सौहृदय्यम्। ब्राह्मणादित्वात् ५.१.१२४ ष्यञ्। हृदादेशपक्षे <<हृद्भगसिन्ध्वन्ते पूर्वपदस्य च>> ७.३.१९ इत्युभयपदवृद्धिः। रोगे — हृद्रोगः, हृदयरोगः। हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरमस्ति, तेनैव सिद्धे विकल्पविधानं प्रपञ्चार्थम्॥
ह्रच्छोकः । हृदशोकः । सौहार्द्यम् । सौहृदय्यम् । हृद्रोगः । हृदयरोगः । हृदयशब्दपर्यायो ह्रच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ॥
<<वा शोकष्यञ्रोगेषु>> - वा शोक । सौहाद्र्यमिति । ब्राआहृणादित्वाद्भावे ष्यञिह्मद्भगसिन्द्वन्ते॑ इत्युभयपदवृद्धिः । सौह्मदय्यमिति । भावे ष्यञि ह्मच्छब्दत्वाऽभावादादिवृद्धौयस्येति चे॑ति लोपे रूपमिति भावः ।
हृदयशब्देनेत्यादि । यदुक्ततं तन्नानुमन्यन्ते, अत एव विकल्पविधानात्, पद्दन्नोमास्हृत् इत्यत्र हृददेशविधानाच्च ॥