नद्याः शेषस्यान्यतरस्याम्

6-3-44 नद्याः शेषस्य अन्यतरस्याम् उत्तरपदे ह्रस्वः

Kashika

Up

index: 6.3.44 sutra: नद्याः शेषस्यान्यतरस्याम्


नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम्। कश्च शेषः? अङी च या नदी ङ्यन्तं च यदेकच्। ब्रहमबन्धूतरा, ब्रहमबन्धुतरा। वीरबन्धूतरा। वीरबन्धुतरा। स्त्रितरा, स्त्रीतरा। स्त्रितमा, स्त्रीतमा। कृन्नद्याः प्रतिषेधो वक्तव्यः। लक्ष्मीतरा। तन्त्रीतरा।

Siddhanta Kaumudi

Up

index: 6.3.44 sutra: नद्याः शेषस्यान्यतरस्याम्


अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा ।<!कृन्नद्या न !> (वार्तिकम्) ॥ लक्ष्मीतरा ॥

Balamanorama

Up

index: 6.3.44 sutra: नद्याः शेषस्यान्यतरस्याम्


नद्याः शेषस्यान्यतरस्याम् - नद्याः शेषस्या । उक्तादन्यः शेषः । 'ङ्यन्तस्यानेकाच' इति पूर्वसूत्रे स्थितं, तदन्यत्वं च अनेकाचो ङ्यन्तत्वाऽभावे ङ्यन्तस्यानेकाच्त्वाभावेऽपि संभवति । तदाह — अङ्यन्तनद्या ङ्यन्तस्यैकाचश्चेति । 'ऊङुतः' इति ब्राहृबन्धुशब्द ऊङन्तः । भाषितपुंस्कस्येति तु नैहानुवर्तत इत्यबिप्रेत्योदाहरति — स्त्रितरेति । कृन्नाद्या नेति । कृदन्ता या नदी तस्या ह्रस्वो नेतिवाच्यमित्यर्थः । लक्ष्मीतरेति । 'लक्षेर्मुट् च' इति औणादिके ईप्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः ।

Padamanjari

Up

index: 6.3.44 sutra: नद्याः शेषस्यान्यतरस्याम्


भाषितपुंस्कादनूङ् इति निवृतम् । कश्च शेष इति । यदि च यत्र पूर्वसूत्रेण ह्रस्वो न विवत्रितः स शेषः, ततो यदभाषितपुंस्कम्, यच्च भिन्नायामाकृतौ भाषितपुस्कमनेकाज ङ्यन्तं तस्यापि ह्रस्वत्वं प्रसज्यते - आमलकीतरा, द्रीणीतरेति । अत्रापि पूर्वेण विहितत्वादिति प्रश्नः । पूर्वसूत्रे यत्साक्षात् श्रुतं तदपेक्षः शेष इत्युतरम् । शेषग्रहणं शक्यमकर्तुम्। कथम् नद्या अन्यतरस्यां ह्रस्व इत्युत्सर्गः, तस्यानेकाच ईतो नित्यह्रस्वत्वमपवादः, तस्मिन्नित्ये प्राप्ते उगितश्चेति विभाषाऽऽरभ्यते । यद्येवम्, नद्या अन्यतरस्याम् इत्यत्र भाषितपुंस्कादित्यनुवर्त्यते, द्रोणीतरा - तात्रापि प्राप्नोती, तस्मात्कर्तव्यं शेषग्रहणम् । तस्मिश्च क्रियमाणे एश्रुतापेक्षं शेषत्वं यथा विज्ञायेतेति पूर्वसूत्रे ङीग्रहणमपि कर्तव्यम् । लक्ष्मीत्रेति । अवितृस्ततन्विभ्य ईः लक्षेर्मुट् च इतीकारप्रत्ययान्तो लक्ष्मीशब्द इति कृन्नद्यन्तो भवति । स तर्हि प्रतिषेधो वक्तव्यः न वक्तव्यः कथम् स्त्रिया इत्युनुवर्तते, तेन नदआआ विशेषयिष्यामः स्त्रिया नद्या इति न च कुन्नदी स्त्रीवाचिनी । नदीसंज्ञाऽपि तर्हि न प्राप्नोति उक्तोऽत्र परिहारो नदीसंज्ञाप्रकरणे ॥