जातेश्च

6-3-41 जातेः च उत्तरपदे स्त्रियाः पुंवत् भाषितपुंस्कादनूङ् अमानिनि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जातेश्च स्त्रिया न पुंवद् भवति अमानिनि परतः। कठीभार्यः। बह्वृचीभार्यः। कठीपाशा। बह्वृचीपाशा। कठीयते। बह्वृचीयते। अमानिनीत्येव — कठमानिनी। बह्वृचमानिनी। अयं प्रतिषेध औपसंख्यानिकस्य पुंवद्भावस्य नेष्यते। हस्तिनीनां समूहो हास्तिकम्॥

Siddhanta Kaumudi

Up

जातेः परो यः स्त्रीप्रत्यस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढे <{SK3928}> इति तु भवत्येव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जातेश्च>> - जातेश्च । 'ईत' इति अस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्याह — जातेः परोः यः स्त्रीप्रत्यय इति । शूद्राभार्य इति ।शूद्रा चामहत्पूर्वे॑ति जातिलक्षणङीषोऽपवादष्टाप् । पुंवत्त्वनिषेधान्न टापो निवृत्तिः । ब्राआहृणीभार्य इति । पुंवत्त्वनिषेदान्न शाङ्र्गरवादिङीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिकमित्यत्रअचित्तहस्ती॑ति ठकि हस्तिनीशब्दस्य 'भस्याऽढे' इति कथं पुंवत्त्वंजातेश्चे॑ति निषेधादित्यत आह — सौत्रस्यैवायं निषेध इति । सूत्रविहितस्येत्यर्थः । 'भस्याऽढे' इति तु वार्तिकमिति भावः । एतच्च 'न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् ।

Padamanjari

Up

कठबहूवृचयोः गौत्रं च चरणौः सह इति जातित्वान् ङीष् । अयमित्यादि । व्याख्यानमत्र शरणम् ॥