6-3-40 स्वाङ्गात् च ऐतः अमानिनि उत्तरपदे स्त्रियाः पुंवत् भाषितपुंस्कादनूङ् न
index: 6.3.40 sutra: स्वाङ्गाच्चेतोऽमानिनि
स्वाङ्गादुत्तरो य ईकारः तदन्तायाः स्त्रियाः न पुंवद् भवति अमानिनि परतः। दीर्घकेशीभार्यः। श्लक्ष्णकेशीभार्यः। दीर्घकेशीपाशा। श्लक्ष्णकेशीपाशा। दीर्घकेशीयते। श्लक्ष्णकेशीयते। स्वाङ्गातिति किम्? पटुभार्यः। ईतः इति किम्? अकेशभार्यः। अमानिनि इति किम्? दीर्घकेशमानिनी।
index: 6.3.40 sutra: स्वाङ्गाच्चेतोऽमानिनि
स्वाङ्गाद्य ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । स्वाङ्गात्किम् । पटुभार्यः । ईतः किम् । अकेशभार्यः ।<!अमानिनीति वक्तव्यम् !> (वार्तिकम्) ॥ सुकेशमानिनी ॥
index: 6.3.40 sutra: स्वाङ्गाच्चेतोऽमानिनि
स्वाङ्गाच्चेतोऽमानिनि - स्वाङ्गाच्चेतः । 'ईत' इति च्छेदः । तदाह — ॒स्वाङ्गाद्य ईकार इति । सुकेशीभार्य इति ।सु=शोभनाः केशा यस्यः सा सुकेशी ।स्वाङ्गाच्चोपसर्जनात् इति ङीष् ।स्त्रियाः पुंव॑दिति प्राप्तस्य निषेधः । पटुभार्य इति । पट्वी भार्या यस्येति विग्रहः । पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्त्वनिषेधः ।किंतु पुवत्त्वेवोतो गुणवचना॑दिति ङीषो निवृत्तिरिति भावः । अकेशभार्य इति । अविद्यमानाः केशा यस्याः सा अकेशा ।नञोऽस्त्यर्थाना॑मिति बहुव्रीहिः, विद्यमानशब्दस्य लोपश्च । स्वाङ्गत्वेऽपि न ङीष्,सहनञ्विद्यमाने॑ति निषेधात् । अतष्टावेव । अकेशा भार्या यस्येति विग्रहः । स्वाङ्गत्वेऽपि ईकाराऽभावान्न पुंवत्त्वनिषेधः । किंतु पुंवत्त्वे टापो निवृत्तिरिति भावः । अमानिनीति ।स्वाङ्गच्चे॑ति निषेधो मानिन्शब्देपरतो न भवतीति वक्तव्यमित्यर्थः । सुकेशमानिनीति । सुकेर्शीमन्यत इत्यर्थेमनश्चे॑ति णिनि, उपधावृद्धिः, उपपदसमासः, सुब्लुक्, पुंवत्त्वे ङीषो निवृत्तिरिति भावः ।
index: 6.3.40 sutra: स्वाङ्गाच्चेतोऽमानिनि
एस्वाङ्गाच्चेतोऽमानिनि ॥ अमानिनीति वार्तिके दर्शनात्सूत्रे प्रक्षिप्तम् । स्वाङ्गाच्चोपसर्जनात् इति ङीष्, दीर्घकेशी । सहनञ्विद्यमानपूर्वाच्चेति प्रतिषेधादकेशा ॥