6-3-3 ओजः सहः अम्भस्तमसः तृतीयायाः अलुक् उत्तरपदे
ओजस् सहस् अम्भस् तमस् इत्येतेभ्य उत्तरस्यास्तृतीयाया अलुग् भवत्युत्तरपदे। ओजसाकृतम्। सहसाकृतम्। अम्भसाकृतम्। तमसाकृतम् ॥ अञ्जस उपसंख्यानम्॥ अञ्जसाकृतम्॥ पुंसानुजो जनुषान्ध इति वक्त व्यम्॥ पुंसानुजः। जनुषान्धः॥
ओजसाकृतमित्यादि ।<!अञ्जस उपसंख्यानम् !> (वार्तिकम्) ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः ।<!पुंसानुजो जनुषान्ध इति च !> (वार्तिकम्) ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥
<<ओजःसहोऽम्भस्तमसः तृतीयायाः>> - ओजस् ।ओजस्,सहस्,अम्भस्,तमस्-एषां समाहारद्वन्द्वः । एभ्य परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । ओजसाकृतमिति ।कर्तृकरणे कृता बहुल॑मिति समासः । 'ओजो दीप्तौ बले' इत्यमरः । इत्यादीति ।सहसाकृतम्, 'अम्भसाकृतम्'तमसावृत्तम् । तमोवृत्तमिति तु असाध्वेव । शेषषष्ठआ वा समासः । अञ्जस उपसङ्ख्यानमिति । अञ्जश्शब्दात्तृतीयाया अलुक उपसङ्ख्यानमित्यर्थः । अञ्जसाकृतमिति । अञ्जश्शब्द आर्जवे वर्तते, यथा क्षेत्रज्ञोऽञ्जसा नयतीत्यादौ तथा दर्शनात् । तदाह -आर्जवेनेति । पुंसानुजः ।तृतीयाया अलुकि साधु॑रिति शेषः । यस्येति । यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति ।जनुर्जननजन्मानी॑त्यमरः जनुषा=जन्मना हेतुना अन्ध इत्यर्थः । फलितमाह — जात्यन्ध इति । ब्राआहृण्यादिजातितुल्याऽन्ध्वानित्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् ।
ओजःसहोग्भस्तमसस्तृतीयायाः ॥