संज्ञापूरण्योश्च

6-3-38 सञ्ज्ञापूरण्योः च उत्तरपदे स्त्रियाः पुंवत् भाषितपुंस्कादनूङ्

Kashika

Up

index: 6.3.38 sutra: संज्ञापूरण्योश्च


संज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति। दत्तभार्यः। गुप्ताभार्यः। दत्तापाशा। गुप्तापाशा। दत्तायते। गुप्तायते। दत्तामानिनी। गुप्तामानिनी। पुरण्याः पञ्चमीभार्यः। दशमीभार्यः। पञ्चमीपाशा। दशमीपाशा। पञ्चमीयते। दशमीयते। पञ्चमीमानिनी। दशमीमानिनी।

Siddhanta Kaumudi

Up

index: 6.3.38 sutra: संज्ञापूरण्योश्च


अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ॥

Balamanorama

Up

index: 6.3.38 sutra: संज्ञापूरण्योश्च


संज्ञापूरण्योश्च - ननु दत्ताशब्दस्य संज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वाऽभावात्स्त्रियाः पुंव॑दित्यस्य प्रसक्तेरेवाऽभावात्क तन्निषेधेनेत्यत आह — दानक्रियानिमित्त इति । दत्तशब्दोऽयं डित्थादिशब्दवन्न, किंतु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च संज्ञाभूतः प्रवृत्तः, अतस्तस्य भाषिपुंस्कत्वात्पुंवत्त्वे प्राप्ते निषेधोऽयमित्यर्थः । पूरण्याः पुंवत्त्वनिषेधमुदाहरति — पञ्चमीभार्य इति । पञ्चमी भार्या यस्येति विग्रहः । अत्रस्त्रियाः पुंव॑दिति प्राप्तं निषिध्यते । पञ्चमीपाशेति । निन्दिता पञ्चमीत्यर्थः ।याप्ये पाशप् । अत्र तसिलादिषु॑ इति प्राप्तं पुंवत्वं निषिध्यते ।

Padamanjari

Up

index: 6.3.38 sutra: संज्ञापूरण्योश्च


संज्ञाशब्दा ये दानादिक्रियानिभिताः पुंसि च स्त्रियां च लोके प्रयुज्यन्ते तदर्थः संज्ञाप्रतिषेधः । ये त्वेकद्रव्यनिमिता देशनिमिता वा संज्ञाशब्दास्तत्राभाषितपुंस्कत्वादेवाप्रसङ्गः । दतायते, गुप्तायते इति । अत्र यद्यपि सत्यसति वा प्रतिषेधे विषेषाभावः, तथापि वस्तुतः प्रतिषेधस्यच विषय इत्येतावताऽस्योपन्यासः ॥