दिवसश्च पृथिव्याम्

6-3-30 दिवसः च पृथिव्याम् उत्तरपदे देवताद्वन्द्वे च दिवः द्यावा

Kashika

Up

index: 6.3.30 sutra: दिवसश्च पृथिव्याम्


पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययमादेशो भवति, चकाराद् द्यावा च। दिवस्पृथिव्यौ। द्यावापृथिव्यौ। अकारोच्चारणम् सकारस्य विकाराभावप्रतिपत्त्यर्थम्। तेन रुत्वदीनि न भवन्ति। कथं द्यावा चिदस्मै पृथिवी नमेते इति? कर्तव्योऽत्र यत्नः।

Siddhanta Kaumudi

Up

index: 6.3.30 sutra: दिवसश्च पृथिव्याम्


दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ । छन्दसि दृष्टानुविधिः ॥ द्यावा चिदस्मै पृथिवी । दिवस्पृथिव्योररतिमित्यत्र पदकारा विसर्गं पठन्ति ॥

Balamanorama

Up

index: 6.3.30 sutra: दिवसश्च पृथिव्याम्


दिवसश्च पृथिव्याम् - दिवसश्च पृथिव्यां । दिव इत्येवेति । दिव इत्यनुवर्तत एवेत्यर्थः, स्वरितत्वादिति भावः । तर्हि चकारो व्यर्थ इत्यत आह — चादिति । तथा च दिव्शब्दस्य दिवसादेशो, द्यावादेशश्च स्यात्पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः । 'दिवस्पृथिव्याः' इत्यत्र सकारादकारस्याऽश्रवणाद्दिवसादेशस्य सकारान्तत्वावश्यंभावादादेश सकारादकारोच्चारणस्य किं प्रयोजनमित्यत आह — आदेशेऽकारोच्चारणमिति । सामर्थ्यात्ससजुषो रु॑रिति रुत्वं नेति भावः । ननुद्यावा चिदस्मै पृथिवी सन्नमेते॑ इत्यत्र दिव्शब्दपृथिवीशब्दयोः कथं द्वन्द्वः , कथं वा दिवो द्यावा देशः, उत्तरपदस्य 'चिदस्मै' इत्यनेन व्यवहितत्वादित्यत आह — छन्दसि दृष्टानुविधिरिति॥ भाष्यवाक्यमेतत् । वेदे दृष्टानुसरणमित्यर्थः । यतादृष्टं तथा प्रक्रिया कल्पनीयेति भावः । पदकारा इति ।दिवस्पृथिव्यो॑रित्यवग्रहे विसर्गं पठन्तीत्यर्थः । 'पदकारा' इत्यनेन पदपाठस्याधुनिकत्वं सूचितम् । तथाच विसर्गपाठः प्रामादिक इति सूचितम्, अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात् । उषासोषसः । उषासासूर्यमिति । उषाश्च सूर्यश्चेति समाहारद्वन्द्वः । मातरपितरावुदीचाम् । उदीचां मते मातरपितराविति भवतीत्यर्थः । अत्र मातृशब्दस्याऽरङादेशो निपात्यते । मातापितराविति । अरङभावे 'आनङृतः' इत्यानङ् । द्वन्द्वाच्चुदष । समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम् । टच्स्यादिति । 'राजाहःसखिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । वाक्त्वचमिति । वाक्य त्वक्चेति समाहारद्वन्द्वः । कुत्वस्याऽसिद्धत्वाच्चवर्गान्तत्वाट्टच् ।एवं त्वक्रुआजमित्यत्रापि । त्वक्च रुआक्चेति विग्रहः । शमीदृषदमिति । शमी च दृषच्चेति विग्रहः । दकारान्तत्वाट्टच् । वाक्त्विषमिति । वाक्च त्विट् । चेति विग्रहः । षान्तत्वाट्टच्, जश्त्वस्याऽसिद्धत्वादिति भावः । छत्रोपानहमिति । छत्रं च उपानच्चेति विग्रहः । हान्तत्वाट्टच् । प्रावृट्शरदाविति । प्रावृट् च शरच्चेति विग्रहः । इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः ।*इति बालमनोरमायांद्वन्द्वसमासः***अथ द्विरुक्तप्रक्रिया । — — — — — — —