दिवो द्यावा

6-3-29 दिवः द्यावा उत्तरपदे देवताद्वन्द्वे च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्व उत्तरपदे। द्यावा॑क्षामा॒ (ऋ० ८.१८.१६)। द्यावा॒भूमी॑ (ऋ० १०.६५.४)॥

Siddhanta Kaumudi

Up

देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<दिवो द्यावा>> - दिवो द्यावा । शेषपूरणेन सूत्रं व्याचष्टे — देवताद्वन्द्वे इति । द्यावाभूमि इति । द्यौश्च भूमिश्चेति विग्रहः । द्यावाक्षामा रुक्मो अन्तर्विभाति॑ इति ऋचि पठितमिदम् । द्यावापृथिव्योरित्यर्थः । द्यौश्च क्षामा चेति विग्रहः । क्षामाशब्दो भुमिपर्यायो वेदे । तत्र द्वन्द्वे दिवो द्यावादेशः । षष्ठआस्तुसुपां सुलुक्इति डादेशः,देवताद्वन्द्वे चे॑ति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्ये स्पष्टम् ।

Padamanjari

Up