6-3-31 उषासोषा उसः उत्तरपदे देवताद्वन्द्वे च
उषस उषासा इत्ययमादेशो भवति देवताद्वन्द्व उत्तरपदे। उषासासूर्यम्। उ॒षासा॒नक्त ा॑ (ऋ० १.१२२.२)॥
उषस्शब्दस्योषादेशो देवताद्वन्द्वे । उषासासूर्यम् ॥
उषासानक्तेति । छान्दसोऽयं प्रयोगः । उषाश्च नक्तं चेति द्वन्द्वः, प्रथमाद्विवचनस्य डादेशः । अत्र पदकाले पदकाले पदकाराः - उषसानक्तेति ह्रस्वमधीयते ॥