पञ्चम्याः स्तोकादिभ्यः

6-3-2 पञ्चम्याः स्तोकादिभ्यः अलुक् उत्तरपदे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्या उत्तरपदेऽलुग् भवति। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्त ः। समासे कृते प्रातिपदिकत्वात् सुपो लुकि प्राप्ते प्रतिषेधः क्रियते। द्विवचनबहुवचनान्तानां तु स्तोकादीनामनभिधानात् समास एव न भवति — स्तोकाभ्यां मुक्त ः, स्तोकेभ्यो मुक्त इति। तेनात्र न कदाचिदैकपद्यमैकस्वर्यं च भवति॥ ब्राह्मणाच्छंसिन उपसंख्यानं कर्तव्यम्॥ ब्राह्मणादादाय शंसतीति ब्राह्मणाच्छंसीति। ऋत्विग्विशेषस्य रूढिरियम्। तस्य व्युत्पत्तिरसता सता वावयवार्थेन क्रियते॥

Siddhanta Kaumudi

Up

एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तररपदे किम् । निष्क्रान्तः स्तोकान्निस्तोकः ।<!ब्राह्मणाच्छंसिन उपसंख्यानम् !> (वार्तिकम्) ॥ ब्राह्मणे विहितानि शस्त्राणि उपचारात् ब्राह्मणानि तानि शंसतीति ब्राह्मणच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥

Laghu Siddhanta Kaumudi

Up

अलुगुत्तरपदे। स्तोकान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृच्छ्रादागतः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पञ्चम्याः स्तोकादिभ्यः>> - पञ्चम्याः स्तोकादिभ्यः । एभ्य इति । स्तोकादिभ्यः परा या पञ्चमी तस्या 'सुपो धातु' इति लुङ् न स्यादित्यर्थः । उत्तरपदे इति । उत्तरशब्दः समासचरमावयवे रूढः, 'पदे' इत्येव सिद्धे उत्तरग्रहणात् । स्तोकान्मुक्त इति । एवमल्पान्मुक्तः ।स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेने॑ति समासः । अत्र पञ्चम्या अलुक् । एवमिति । आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः । अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादागतः । निःस्तोक इति ।निरादयः क्रान्ताद्यर्थे पञ्चम्ये॑ति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाऽभावात्पञ्चम्या अलुक् न । 'स्तोकान्मुक्तः' इत्यादौ समासप्रयोजनं तु समासस्वरः, सर्वस्मात्स्तोकान्मुक्त इति विशेषणयोगाऽभावश्च । किंच स्तोकान्मुक्तस्यापत्यं स्तौकामुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोकान्मुक्तौ, स्तोकान्मुक्ता इति द्विबहवचनान्तैर्न समासः, अनभिधानादिति भाष्ये स्पष्टम् । ब्राआहृणाच्छंसिन उपसङ्ख्यानमिति ।पञ्चम्या अलु॑गिति शेषः । ननु ब्राआहृणानि शंसतीत्यर्थे कथं पञ्चमी । विधायकवाक्यानि हि ब्राआहृणशब्देनोच्यन्ते,कर्मचोदना ब्राआहृणानि॑ इति कल्पसूत्रात्,शेषे ब्राआहृणशब्दः॑ इति मन्त्रभिन्नवेदभागे ब्राआह्णशब्दस्य जैमिनिना सङ्केतितत्वाच्च । एतादृशब्राआहृणभागस्य न क्लापि शंसनं विहितम्ऋचः शंसति निविदः शंसती॑ति श्रुतिष्वित्यत आह — ब्राआहृणे इति । शस्त्राणीति । ऋचा निविदां च सङ्घः शस्त्रम् । उपचारादिति । लक्षणयेत्यर्थः । द्वितीयार्थे इति । पञ्चम्या अलुगुपसङ्ख्यानबलादेव द्वितीयार्थे पञ्चमीत्यर्थः ।

Padamanjari

Up

स्तोकादीनां प्रतिपदिकगणेऽपाठात्सूत्रपठितानां ग्रहणमित्याह - स्तोकान्तिकदूरार्थकृच्छाणि स्तोकादीनीति । करणे च स्तोकाल्पकृच्छ्र इत्यादीनि तुस्तोकादीनि न गृह्यन्त अव्याप्तः । स्तोकान्तिक इत्यत्रत्यानि भूयिष्ठानि अर्थग्रहणात् । अलुग्भवतीति । लुग्न भवतीत्यर्थः । सुपो लुकि प्राप्त इति । सुपो धातुप्रातिपदिकयोः इत्यनेन । प्रतिषेधः क्रियत इति । अलुगिति प्रसज्यप्रतिषेध इति दर्शयति, उतरपदाधिकारोपजीवनाय तु नाव्ययीभावात् इत्यस्यानन्तरमिदं प्रकरणं नारब्धम्, एकवच्च, सर्वस्यालुक्प्रकरणस्य शेषभूतोऽयमर्थातिदेशः, यस्या विभक्तेरलुग्विधीयते, तदर्थो द्व्यात्मको बह्वात्मकर्श्चैकवद्भवतीति वक्तव्यम् । तेन स्तोकाभ्यां मुक्तः, स्तोकेभयो मुक्त इत्यपि विग्रहे स्तोकाभ्यां मुक्तः स्तोकेभ्यो मुक्त इत्यत्राप्यैकपद्यमैकस्वर्यं स्यात् नैष दोषः, स्तोकादिभ्यः प्रतिपदं या पञ्चमी - करणे च स्तोकाल्प इति, तस्य अलुक्, सा चासत्ववचनेभ्यो द्विबह्वोर्न सम्भवतीति स्तोकाभ्याम्, स्तोकेभ्य इत्यपादान एषां पञ्चमीत्येव न भविष्यति । एवमपि दूराभ्यामागतः, दुरेभ्य आगत इत्यत्र प्रसङ्गः अत्र हि दूरान्तिकार्थेभ्यो द्वितीया चेति प्रतिपदमेव पञ्चमी । तथाऽन्तिकाभ्यां कृतम्, अन्तिकेभ्यः कृतमित्यादावप्यलुक्प्रसङ्गः तस्मादेकवच्चेति वक्तव्यम् । ननु वृतावुपसर्जनपदानि एकादिसङ्ख्यां विहायाभेदैकत्वासङ्ख्यां प्रतिपद्यन्ते, का पुनरियमभेदैकत्वसङ्ख्या विशेषाणामविभागेनावस्थानम्, यथा - मधुन्योषधिरसानाम्, न हि तत्रास्या ओषधेरयंरसोऽस्या अयमिति विभागो दृश्यते, अथ च त एव विशेषा अनुभूयन्ते न पुना रससामान्यम्, तद्वदत्रापि राजपुरुष तैति राजार्थो नैकत्वादिविशेषाः । उक्तं च - यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां सङ्ख्यां तादृशीं विदुः ॥ इति । यद्वा - अनुपातसङ्ख्याविशेषमेकत्वादिष्वनुगतं सामान्यमभेदैकत्वसङ्ख्या, यथा सन्तमसे रुपमात्रं एगृह्यते न पुनः शुक्ल इति वा, कृष्ण इति वा, तद्वदत्रापीति सङ्ख्यावान् राजार्थः, न चाव्ययार्थवन्निःसङ्ख्य इत्येतावत्प्रतीयते । उक्तं च भेदानां वा परित्यागात्सङ्ख्यात्मा स तथाविधः । व्यापारज्जातिभागस्य भेदापोहेन वर्तते ॥ अन्तर्हितविशेषेण यथा रुपेण रुपनान् । प्रख्यायते न शुक्लादिभेदो रुपस्य गम्यते ॥ इति । एतदेवमभेदैकत्वसङ्ख्योपादानाद् द्विवचनबह्वचनान्तानां सर्वा वृत्तिर्न भवति, किं पुनः समास एव, ततश्च समासाभावादलुग्न भविष्यतीति किमेकवद्भवेन उच्यते किं पुनः कारणम् - वृतावभेदैकत्वसङ्ख्या प्रतीयते सङ्ख्याविशेषप्रतिपादकाभावात् । विभक्तिर्हि तस्य प्रतिपादिका, सा च वृतौ निवृता, निवृतायां च तस्याम् त्रिकऋ प्रातिपदिकार्यः इति पक्षे सङ्ख्यासामान्यस्यापि तावत्प्रदिपादकाभावः । यदि परं गुड इत्युक्ते माघुर्यादिवदव्यभिचारात्सङ्ख्या प्रतीयते, अव्यभिचारश्च चसामान्यस्यानियतस्य वा विशेषस्येति, सैवाभेदैकत्वसङ्ख्या । पञ्चकपत्रेऽपि सङ्ख्याविशेषप्रतिपतौ द्योतकत्वेनापि तावद् विभक्तयोऽपेक्ष्यन्त इति तदभावात्सामान्योऽनियते वा विशेषः प्रतीयत इति सैवाभेदैकत्वसङ्ख्या । यत्र ह्यर्थप्रकरणादिकं विशेषावगतौ प्रमाणं भवत्येव तत्र वृत्तिथः । तद्यथा, अर्याद् मुद्गौः क्रीतं मौद्गिकम्, न ह्यएकेन मुद्गेन क्रयः सम्भवति, कारकमध्य इति च, न ह्यएकस्य मध्यं सम्भवति प्रकरणात् - भवद्गिरामवसरप्रदानाय इति आदेशात् - तावकीनो मामकीन इति शैषिकः । मासजात इत्यादौ तु प्रातिपदिकार्थस्यैवाक्तपरिमाणत्वात् । द्विपुत्र इत्यादौ सङ्ख्याशब्दसन्निधानात् । तदेवं यत्र विषेषे प्रमाणाभावस्तत्राभेदैकत्वसङ्ख्या । यद्येवम्, अत्रालुकि सति विभक्तिरेव प्रमाणमिति द्विवचनबहुवचनान्तानां समास स्यादेव यदा त्वर्थप्रकरणादिना विशेषावगतौ द्विवचनबहुवचनान्तानां वृत्तिर्भवति तदा का शङ्घा विभक्तावेव सत्याम् । यदि चाभेदैकत्वसङ्ख्योपजनाद् द्विचनबहुवचनयोरलुगभावः, एकवचनस्यापि न स्यात्, तस्यापि हि सुद्धमेकत्वं वाच्यम्, माभेदैकत्वसङ्ख्या । अथ विभाक्त्यभावे सङ्ख्यासामान्यस्य प्रतीतस्य विषेषपयेवसानापेक्षायां यो हि बहून् कल्पयति कल्पयत्यसावेकमिति न्यायेन वृतावपि शुद्धमेकत्वं प्रतीयत इत्युच्येत, अभैदैकत्वसङ्ख्येत्यनुपपन्नं स्यात्। तस्मादेकवचनान्तम्य, द्विवचनान्तस्य, बहुवचनान्तस्य वा यथेष्ट्ंअ वृत्तिः, वृतौ एचाभेदैकत्वसङ्ख्या, अर्थप्रकरणादिना विशेषावगतिरिति वाच्यम्। एवं च पूर्वोक्तेन न्यानेन द्विवचनबहुचनयोरलुक्प्रसङ्गादतिदेश आश्रयितव्यः । यद्येवम्, गोपुचरः अप्सुयोनिः, अप्सव्य इति ये नित्यबहुवचनान्ताः तेषा मप्यलुकि एकत्वातिदेशादेकवचनप्रसङ्गः एवं तर्ह्यनभिधानमत्र हेतुः । तदाह द्विवचनबहुवचनान्तानां त्वनभिधानादिति । वाक्यमपि तर्हि न प्राप्नोति । न च वाच्यम् - समासे नास्त्यभिधानम्, वाक्ये पुनरस्तीति । नु हि समाससंज्ञाऽर्थाभिधाने उपयुज्यते, यत्पुनरुपयुज्यते - प्रातिपदिकम्, विभक्तिश्च, तत्सर्वमविकलमिति किमत्रानभिधानं करिष्यति । तत्राह - तेनात्रेत्यादि । स्वरस्याप्यर्थाभिधान उपयोगात्, पृथक्स्वरयुक्तस्य वाक्यस्य प्रतिपादकत्वमैकस्वर्ययुक्तस्य समासस्याप्रतिपादकत्वं च युक्तमित्यर्थः । ब्राह्मणाच्छ्ंअसिन इत्यादि । किं पुनरत्रोपसङ्ख्यायते द्वितीयार्थे पञ्चमी, ब्राह्मणानि शंसति ब्राह्मणच्छ्ंअसी, अलुक् तु तत्पुरुषे कृति बहुलम् इत्येव सिद्धः । ननु शास्राण्यसौ शंसति, न ब्राह्मणानि नैष दोषः ब्राह्मणविहितेषु शास्रेषु ब्राह्मतणशब्दो द्रष्टव्यः । अपर आर - युक्त एवात्र पञ्चम्यर्थः, आहरणपूर्वके शंसने शंसतिर्वर्तते, ब्राह्मणादाहृत्य सूक्तानि शंसतीति ब्राह्मणाच्छ्ंअसी । एवमापि होतृप्रभृतिष्वपि ब्राह्मणाच्छ्ंअसीति प्राप्नोति तत्राह - ऋत्विग्विशेषस्य रुढिरियमिति । तस्या इति । ब्राह्मणाच्छ्ंअसीत्यस्या रुढेअरित्यर्थः । सतेति । ब्राह्मणाच्छ्ंअसीत्यत्र पक्षे पञ्चम्यर्थो न सम्भवति, पक्षान्तरे तु सम्भवति ॥