6-3-27 ईत् अग्नेः सोमवरुणयोः उत्तरपदे देवताद्वन्द्वे च
सोम वरुण इत्येतयोर्देवताद्वन्द्वेऽग्नेरीकारादेशो भवति। अग्नी॑षोमौ (ऋ०१.९३.१)। अग्नीवरुणौ। <<अग्नेःस्तुत्स्तोमसोमाः>>८.३.८२ इति षत्वम्॥
देवताद्वन्द्वे इत्येव ॥
<<ईदग्नेः सोमवरुणयोः>> - ईदग्नेः । इत्येवेति । 'देवताद्वन्द्वे' इत्यनुवर्तत एवेत्यर्थः । सोमशब्दे वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशः स्याद्देवताद्वन्द्वे इत्यर्थः । आनङोऽपवादः ।