देवताद्वन्द्वे च

6-3-26 देवताद्वन्द्वे च उत्तरपदे आनङ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति। इन्द्रा॒वरु॑णौ (ऋ० ६.६८.१)। इन्द्रा॑सोमौ (ऋ० ६.७२.३)। इ॒न्द्॒राबृ॒ह॒स्प॒ती॒ (ऋ० ४.४९.१)। द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यार्थम्। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इत्येतद् निपात्यते। तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास्तेषामिह ग्रहणं भवति। तेन ब्रह्मप्रजापती, शिववैश्रवणावित्येवमादौ न भवति॥ उभयत्र वायोः प्रतिषेधो वक्तव्यः॥ अग्निवायू। वाय्वग्नी॥

Siddhanta Kaumudi

Up

इहोत्तरपदे परे आनङ् । मित्रावरुणौ ।<!वायुशब्दप्रयोगे प्रतिषेधः !> (वार्तिकम्) ॥ अग्निवायू । वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अनृकारन्तार्थमविद्यायोनिसम्बन्धार्थं वचनम्। द्वन्द्व इति वर्तमान इत्यादि । प्रकृतं द्वन्द्वग्रहणं एसमासविशेषप्रतिपत्यर्थम्, इदं प्रसिद्धं साहचर्यं यस्य युगलस्य तत्परिग्रहर्थम् । कथं पुनर्न परिग्रहः तैत्यत आह अत्यन्तसहचारत इत्यादि । द्वन्द्वं रहस्यमर्यादा इत्यत्राभिव्यक्तिग्रहणेनात्यन्तसहचरितयुगले द्वन्द्व इति निपात्यते, तस्यात्र ग्रहणं देवतापदेन, समस्तं चेदम्प्रकृतस्य द्वन्द्वस्यार्थद्वारकं विशेषणम् - अत्यन्तसहचरितयुगलाभिधायिनि द्वन्द्व इति यावत् । साहचर्यमेव विशिनष्टि - तत्रेति । सहवापः - सहनिर्वापः । अग्नीषोमाभ्यां जुष्ट्ंअ निर्वपामि इत्यादि । उभयत्रेति । पूर्वपत्वेनोतरपदत्वेनेत्यर्थः ॥