6-3-24 विभाषा स्वसृपत्योः अलुक् उत्तरपदे षष्ठ्याः ऋतः विद्यायोनिसम्बन्धेभ्यः
स्वसृ पति इत्येतयोकरुत्तरपदयोर्ऋकारान्तेभ्यो विद्यायोनिसंबन्धवाचिभ्य उत्तरस्याः षष्ठ्या विभाषालुग् भवति। मातुःष्वसा, मातुःस्वसा, मातृष्वसा। पितुःष्वसा, पितुःस्वसा, पितृष्वसा। यदा लुक् तदा <<मातृपितृभ्यां स्वसा>> ८.३.८४ इति नित्यं षत्वम्। यदा त्वलुक् तदा <<मातुःपितुर्भ्यामन्यतरस्याम्>> ८.३.८५ इति विकल्पेन षत्वम्। दुहितुः — पतिः, दुहितृपतिः। ननान्दुःपतिः, ननान्दृपतिः॥
ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥
<<विभाषा स्वसृपत्योः>> - विभाषा स्वसृपत्योः । ऋदन्तादिति ।विद्यासंबन्धयोनिसंबन्धान्यतरवाचिन॑ इति शेषः । ततश्चभोक्तृस्वसे॑त्यत्र नातिव्याप्तिः ।