6-3-23 ऋतः विद्यायोनिसम्बन्धेभ्यः अलुक् उत्तरपदे षष्ठ्याः
ऋकारान्तेभ्यो विद्यासंबन्धवाचिभ्यो योनिसंबन्धवाचिभ्यश्चोत्तरस्याः षष्ठ्या अलुग् भवति। होतुरन्तेवासी। होतुःपुत्रः। पितुरन्तेवासी। पितुःपुत्रः। ऋत इति किम्? आचार्यपुत्रः। मातुलपुत्रः। विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्। विद्यायोनिसंबन्धवाचिन्येवोत्तरपदे यथा स्याद्, अन्यत्र मा भूत्। होतृधनम्। पितृधनम्। होतृगृहम्। पितृगृहम्॥
विद्यासंबन्धयोनिसंम्बन्धवाचिन ऋदन्तात्षष्ठ्या अलुक् । होतुरन्तेवासी । होतुः पुत्रः । पितुरन्तेवासी । पितुः पुत्रः ।<!विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् !> (वार्तिकम्) ॥ नेह । होतृधनम् ॥
<<ऋतो विद्यायोनिसम्बन्धेभ्यः>> - ऋतो विद्यमा । एकत्वे बहुवचनम् ।तदाह-विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तादिति । अलुक् स्यादिति ।उत्तरपदे परत॑इति शेषः ।विद्यासंबन्धवाचिनमुदाहरति — होतुरन्तेवासीति । ऋग्वेदविहितकर्मविशेषकर्ता होता । अतो होतृशब्दो विद्यासंबन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति । विद्यासंबन्धवाचिन उदाहरणान्तरमिदम् । अथ योनिसंबन्धवाचिनमुदाहरति — पितुरन्तेवासीति । पितुःपुत्र इति च । ननु 'होतृधनं' पितृधन॒मित्यत्राऽप्यलुक् स्यादित्यत आह — विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणमिति ।विद्यायोनिसंबन्धेभ्यः॑ इत्यत्र विद्यासंबन्धयोनिसंबन्धवाचिनोः पूर्वोत्तरपदयोग्र्रहणमित्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसंबन्ध्यान्यतरवाचित्वं विवक्षितमिति भावः ।होतृधनं॒॑पितृधन॑मित्यत्र उत्तरपदस्य विद्यासंबन्धयोनिसंबन्धान्यतरवाचित्वाऽभावान्न षष्ठआ अलुगिति भावः । अन्यतरसंबन्धवाचित्वस्य विवक्षितत्वादेव 'होतुःपुत्र' इत्यादि सिद्धम् ।
विद्या च योनिश्च विद्यायोनी, अभ्यर्हितत्वाद्विद्यायाः पूर्वनिपातः, तत्कृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः, कृतशब्दो गम्यमानत्वान्न प्रयुज्यते । पितुःपुत्र इति । प्रख्यातात्पितुरुत्पन्न इत्यर्थः । विद्यायोनिसम्बन्धेभ्यः पूर्वोतरपदग्रहणमिति । सूत्रे पञ्चमीनिर्देशात्पूर्वपदानामेव विद्यायोनिसम्बन्धवावित्वं लभ्यते, नोतरपदानामथ सप्तमीनिर्देशः क्रियते । उतरपदानामेव लभ्यते, न पूर्वपदानाम् । तस्मादुभयेषामपि तद्वाचित्वेऽयं विधिरिति वक्तव्यमित्यर्थः । अन्यवृत्तिपरत्वाच्चास्य तेषां परस्परव्यतिकरेऽपि भवति - होतुः पुत्रः, पितुरन्तेवासीति ॥