पुत्रेऽन्यतरस्याम्

6-3-22 पुत्रे अन्यतरस्याम् अलुक् उत्तरपदे षष्ठ्याः आक्रोशे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पुत्रशब्द उत्तरपद आक्रोशे गम्यमानेऽन्यतरस्यां षष्ठ्या अलुग् भवति। दास्याःपुत्रः, दासीपुत्रः। वृषल्याःपुत्रः, वृषलीपुत्रः। आक्रोश इत्येव — ब्राह्मणीपुत्रः॥

Siddhanta Kaumudi

Up

षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रः । दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पुत्रेऽन्यतरस्याम्>> - पुत्रेऽन्यतरस्यां । निन्दायामिति । 'आक्रोशे' इत्यनुवृत्तिलभ्यमिदम् । स्पष्टं चेदम् 'आनङृतः' इत्यत्र भाष्ये ।

Padamanjari

Up