षष्ठ्या आक्रोशे

6-3-21 षष्ठ्याः आक्रोशे अलुक् उत्तरपदे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आक्रोशे गम्यमान उत्तरपदे षष्ठ्या अलुग् भवति। चौरस्यकुलम्। वृषलस्यकुलम्। आक्रोश इति किम्? ब्राह्मणकुलम्॥ षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासंख्यमलुग् वक्तव्यः॥ वाचोयुक्ति ः। दिशोदण्डः। पश्यतोहरः॥ आमुष्यायणामुष्य — पुत्रिकामुष्यकुलिकेति चालुग् वक्तव्यः॥ अमुष्यापत्यमामुष्यायणः। नडादित्वात् ४.१.९९ फक्। अमुष्य पुत्रस्य भाव आमुष्यपुत्रिका। मनोज्ञादित्वाद् ५.१.१३३ वुञ्। तथा आमुष्यकुलिकेति॥ देवानांप्रिय इत्यत्र च षष्ठ्या अलुग् वक्तव्यः॥ देवानांप्रियः॥ शेपपुच्छलाङ्गूलेषु शुनः संज्ञायां षष्ठ्या अलुग् वक्तव्यः॥ शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गूलः॥ दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः॥ दिवोदासाय गायति॥

Siddhanta Kaumudi

Up

चौरस्यकुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ।<!वाद्गिक्पश्यद्भ्यो युक्तिदण्डहरेषु !> (वार्तिकम्) ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ।<!आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च !> (वार्तिकम्) ॥ आमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । एवमामुष्यकुलिका ।<!देवानांप्रिय इति च मूर्खे !> (वार्तिकम्) ॥ अन्यत्र देवप्रियः ।<!शेपपुच्छलाङ्गलेषु शुनः !> (वार्तिकम्) ॥ शुनः शेपः । शुनः पुच्छः । शुनोलाङ्गूलः ।<!दिवसश्च दासे !> (वार्तिकम्) ॥ दिवोदासः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<षष्ठ्या आक्रोशे>> - षष्ठआ आक्रोशे । 'अलुगुत्तरपदे' इति शेषः । आक्रोशो-निन्दा । वाग्दिक् । वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठआ अलुक् स्यात्-युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति । अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति । पस्यन्तमनादृत्य हरतीत्यर्थः । 'षष्ठी चानादरे' इति षष्ठी । आमुष्यायणेति । वार्तिकमिदम् । एते निपात्यन्ते । अमुष्येति । अमुष्याषत्यमित्यर्थेनडादिभ्यः फगि॑ति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात्प्रातिपदिकतया तदवयवत्वात्प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे 'आमुष्यायण' इति रूपमित्यर्थः । अमुष्य पुत्र इति विग्रहे षष्ठीसमासे षष्ठआ अलुकि 'अमुष्यपुत्र' शब्दः । अमुष्यपुत्रस्य भाव इत्यर्थेद्वन्द्वमनोज्ञादिभ्यश्चे॑ति वुञि अकादेशे पुत्रशब्दात्सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापिप्रत्ययस्था॑दितीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः । एवमिति । अमुष्य कुलमिति षष्ठीसमासे षष्ठआ अलुकि अमुष्यकुलशब्दाद्बुञादिः पूर्ववदित्यर्थः । देवानामिति । वार्तिकमिदम् ।मूर्खः-अज्ञः ।दिवु क्रीडायाम् । देवाः-क्रीडासक्ता मूर्खाः, तेषां प्रियोषप्रि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादितिअजेर्वी॑त्यत्र कैयटः । शेपपुच्छेति । वार्तिकमिदम् । षष्ठआ अलु॑गिति सेषः । संज्ञायामिति ।भाष्यम् ष शुनश्शेप इति । शुनः शेप इव शेपो यस्येति विग्रहः ।मेढ्रो मेहनशेपसी॑ । शेफशब्दोऽप्यस्ति, 'शेपाय स्वाहा' इति दर्शनात् । शुनःपुच्छ इति । शुनः पुच्छमिव पुच्छं यस्येति विग्रहः । एवं शुनोलाङ्गूल इत्यपि । ऋषिविशेषणां संज्ञा एताः । दिवश्च दासे इति । वार्तिकम् ।षष्ठआ अलु॑गिति शेषः । दिवोदास इति कश्चिद्राजर्षिरयम् ।

Padamanjari

Up

एपश्यतोहर इति । षष्ठी चानादरे इति षष्ठी, पश्यन्तमनादृत्य हरतीत्यर्थः । शुनः शेप इति । आकारन्तोऽप्यस्ति शेपशब्दः न केवलं सकारान्तः । शुन इव शेपमस्येति बहुव्रीहिः । एवं पुच्छलाङ्गूलाभ्यामपि बहुव्रीहिः । ऋषिविशेषाणामेताः संज्ञाः ॥