6-3-20 स्थे च भाषायाम् अलुक् उत्तरपदे सप्तम्याः न
स्थे चोत्तरपदे भाषायां सप्तम्या अलुग् न भवति। समस्थः। विषमस्थः। कूटस्थः। पर्वतस्थः। भाषायामिति किम्? कृष्णो॑ऽस्याखरे॒ष्ठः(मा० सं० २.१)। <<पूर्वपदात्>> ८.३.१०४ इति षत्वम्॥
सप्तम्या अलुङ्न । समस्थः । भाषायां किम् । कृष्णोऽस्याखरेष्ठः ॥
<<स्थे च भाषायाम्>> - स्थे च भाषायाम् ।अनन्तरस्ये॑ति न्यायात्तत्पुरुषे कृती॑त्यस्यैवायं निषेधः । अत एव 'अनेकमन्यपदार्थे' इति सूत्रभाष्येसप्तम्युपमानपूर्वपदस्ये॑ति वार्तिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठेस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः सङ्गच्छते । यदा तुअमूर्धंमस्तका॑दित्यस्याप्ययं निषेधः स्यात्तर्हि तदसङ्गतिः स्यात्, लुक्प्रसङ्गात् ।
आखरेष्ठ इति । स्थः क चेति कः ॥