6-3-19 न ईन्सिद्धबध्नातिषु च अलुक् उत्तरपदे सप्तम्याः
इन्नन्त उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्या अलुग् न भवति। स्थण्डिलवर्ती। सिद्ध — सांकाश्यसिद्धः। काम्पिल्यसिद्धः। बध्नाति — चक्रबद्धः। चारबद्धः। सप्तमीति योगविभागात् समासः। चक्रबन्ध इति केचिदुदाहरन्ति तत् पचाद्यजन्तं द्रष्टव्यम्। घञन्ते हि <<बन्धे च विभाषा>>६.३.१३ इत्युक्त म्॥
इन्नन्तादिषु सप्तम्या अलुङ्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः ॥
<<नेन्सिद्धबध्नातिषु>> - नेन्सिद्धबन्धानादिषु च । चक्रबद्ध इति ।साधनं कृते॑ति क्तान्तेन सप्तम्यन्तस्य समासः ।