घकालतनेषु कालनाम्नः

6-3-17 घकालतनेषु कालनाम्नः अलुक् उत्तरपदे हलदन्तात् सप्तम्याः विभाषा

Kashika

Up

index: 6.3.17 sutra: घकालतनेषु कालनाम्नः


घसंज्ञके प्रत्यये, कालशब्दे, तनप्रत्यये च परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति। घ पूर्वह्णेतरे, पूर्वाह्णतरे। पूर्वाह्णेतमे, पूर्वाह्णतमे। काल पूर्वाह्णेकाले, पूर्वह्णाकाले। तन पूर्वाह्णेतने, पूर्वाह्णतने। कालनाम्नः इति किम्? शुक्लतरे। शुक्लतमे। हलदन्तादित्येव, रात्रितरायाम्। उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न इष्यते हृदयस्य हृल्लेख इति लेखग्रहणाल् लिङ्गात्। तेन घतनग्रहणे, तदन्तग्रहणं न भवति। काल इति न स्वरूपग्रहणम्।

Siddhanta Kaumudi

Up

index: 6.3.17 sutra: घकालतनेषु कालनाम्नः


सप्तम्या विभाषाऽलुक् स्यात् । घे । पूर्वाह्णेतरे । पूर्वाह्णतरे । पूर्वाह्णेतमे । पूर्वाह्णतमे । काले । पूर्वाह्णेकाले । पूर्वाह्णकाले । तने । पूर्वाह्णेतने । पूर्वाह्णतने ॥

Balamanorama

Up

index: 6.3.17 sutra: घकालतनेषु कालनाम्नः


घकालतनेषु कालनाम्नः - घकालतनेषु । शेषपूरणेन सूत्रं व्याचष्टे — सप्तम्या इति । घेति घे परे उदाहरणसूचनमिदम् ।तरप्तमपौ घः॑ । पूर्वाह्णेतरे इति । अतिशायने सप्तम्यन्तात्तरप्तमपौ । अत एव तत्तद्विभक्त्यन्तात्तरप्तमपाविति विज्ञायते । कालेति । उदाहरणसूचनमिदम् । पूर्वाह्णेकाले इति । अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव । तनेति । उदाहरणसूचनमिदम् । पूर्वाह्णेतने इति ।विभाषा पूर्वाह्णापराह्णाभ्या॑मिति ठ्युठ्युलौ, तुट् च ।

Padamanjari

Up

index: 6.3.17 sutra: घकालतनेषु कालनाम्नः


घ इति तरप्तमपोर्ग्रहणम्। काल इति स्वरुपग्रहण्, तन इति ट।लुट।लुलोरादेशस्य सतुट्कस्य ग्रहणम् । एपूर्वाह्णेतनमिति । सप्तम्यर्थप्रकर्षे प्रत्यः, तस्याद्रव्यप्रकर्षत्वादलुक्पक्षे, किमेतिङ्व्ययघात् इत्यामुप्रत्ययः । लुक्पक्षे तु निमिताभावादद्रव्यप्रकर्षेऽप्यामभावः । तरबन्तात् सप्तमी । क्वचितु - अलुक्पक्षेऽपि सप्तमी समुदायात्पठ।ल्ते, तत्र प्रकृत्यर्थविवक्षया अद्रव्यप्रकर्षे इति प्रतिषेधो व्याख्येयः । पूर्वह्णे इति । विभाषा पूर्वह्णापराह्णाभ्याम् इति ट।लुट।लुलौ, अनादेशास्तुट् च । कथं पुनर्घतनप्रत्ययमात्रेऽलुक् उदाहृतः, यावता प्रत्ययग्रहकणवरिभाषया तदन्त उतरपदेऽलुगुदारर्तव्यः अत आह - उतरपदाधिकार इति । कुत इत्याह । लेखग्रहणादिति । यदयम् हृदयस्य हृल्लेखयदणलासेषु इत्यण्ग्रहणे क्रियमाणे लेखग्रहणं करोति, तज्झापयति - नोतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्भवतीति । यदि स्यात्, लेखगर्हणं न कुर्यात् अणन्त इत्येव सिद्धत्वात् । ननु च घञर्थं लेखगर्हणं स्यात्, न वै घञन्त इष्यते । कालेति न स्वरुपग्रहणमिति । नामग्रहणात् । क्वचिन्नञ् न पठ।ल्ते, तत्र घकाले स्वरुपग्रहणमित्यर्थः ॥