विभाषा वर्षक्षरशरवरात्

6-3-16 विभाषा वर्षक्षरशरवरात् अलुक् उत्तरपदे हलदन्तात् सप्तम्याः जे

Kashika

Up

index: 6.3.16 sutra: विभाषा वर्षक्षरशरवरात्


वर्ष क्षर शर वर इत्येतेभ्य उत्तरस्यः सप्तम्याः जे उत्तरपदे विभाषा अलुग् भवति। वर्षेजः, वर्षजः। क्षरेजः, क्षरजः। शरेजः, शरजः। वरेजः, वरजः।

Siddhanta Kaumudi

Up

index: 6.3.16 sutra: विभाषा वर्षक्षरशरवरात्


एभ्यः सप्तम्या अलुक् जे । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । शरेजः । शरजः । वरेजः । वरजः ॥

Balamanorama

Up

index: 6.3.16 sutra: विभाषा वर्षक्षरशरवरात्


विभाषा वर्षक्षरशरवरात् - विभाषा वर्ष । शेषपूरणेन सूत्रं व्याचष्टे — एभ्यस्सप्तम्या इति ।