प्रावृट्शरत्कालदिवां जे

6-3-15 प्रावृट्शरत्कालदिवां जे अलुक् उत्तरपदे हलदन्तात् सप्तम्याः

Kashika

Up

index: 6.3.15 sutra: प्रावृट्शरत्कालदिवां जे


प्रावृट् शरत् काल दिवित्येतेषां जे उत्तरपदे सप्तम्याः अलुक् भवति। प्रावृषिजः। शरदिजः। शरदिजः। कालेजः। दिविजः। पूर्वस्य एव अयं प्रपञ्चः।

Siddhanta Kaumudi

Up

index: 6.3.15 sutra: प्रावृट्शरत्कालदिवां जे


प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ॥

Balamanorama

Up

index: 6.3.15 sutra: प्रावृट्शरत्कालदिवां जे


प्रावृट्शरत्कालदिवां जे - प्रावृट्शरत् । प्रावृट्, शरत्, काल, दिव्-एषां सम्या अलुक् स्याज्ज शब्दे परे संज्ञायामित्यर्थः । ननुहलदन्ता॑दित्येव सिद्धे किमर्थमिदमित्यत आह — पूर्वस्यैवायं प्रपञ्चेति । विस्तर इत्यर्थः ।

Padamanjari

Up

index: 6.3.15 sutra: प्रावृट्शरत्कालदिवां जे


प्रावृट्शरदोः पृथग्ग्रहणात्कालेति स्वरुपग्रहणम् ॥