6-3-132 ओषधेः च विभक्तौ अप्रथमायाम् उत्तरपदे संहितायाम् मन्त्रे
मन्त्र इति वर्तते। ओषधिशब्दस्य विभक्त ावप्रथमायां परतो दीर्घो भवति। ओष॑धीभिः पुनीतात् (ऋ० १०.३०.५)। नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः (तै०आ० २.१२.१)। विभक्ताविति किम्? ओषधिपते। अप्रथमायामिति किम्? स्थिरेयमस्त्वोषधिः॥
दीर्घः स्यान्मत्रे । यदोषधीभ्यः (यदोष॑धीभ्यः) । अदधात्योषधीषु (अ॒द॒धा॒त्योष॑धीषु) ॥