6-3-129 नरे सञ्ज्ञायाम् उत्तरपदे संहितायाम् विश्वस्य
नरशब्द उत्तरपदे संज्ञायां विषये विश्वस्य दीर्घो भवति। विश्वानरो नाम यस्य वैश्वानरिः पुत्रः। संज्ञायामिति किम्? विश्वे नरा यस्य स विश्वनरः॥
विश्वानरः ॥
<<नरे संज्ञायाम्>> - नरे संज्ञायाम् । 'विश्वस्य दीर्घ' इति शेषः ।विश्वस्य वसुराटोरिति पूर्वसूत्राद्विश्वस्येत्यनुवर्तते ।