6-3-128 विश्वस्य वसुराटोः उत्तरपदे संहितायाम्
index: 6.3.128 sutra: विश्वस्य वसुराटोः
विश्वशब्दस्य वसु राटित्येतयोः उत्तरपदयोः दिर्घ आदेशो भवति। विश्वावसुः। विश्वाराट्। राटिति विकारनिर्देशो यत्र अस्य एतद् रूपं तत्र एव यथा स्यात्। इह न भवति, विश्वराजौ। विश्वराजः।
index: 6.3.128 sutra: विश्वस्य वसुराटोः
विश्वशब्दस्य दीर्घः स्याद्वसौ राट्शब्दे च परे । विश्वं वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमविवक्षितम् । विश्वाराट् । विश्वाराड् । विश्वराजौ । विश्वराजः । विश्वाराड्भ्यामित्यादि ॥
index: 6.3.128 sutra: विश्वस्य वसुराटोः
विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्वसौ राट्शब्दे च परे। विश्वाराट्, विश्वाराड्। विश्वराजौ। विश्वाराड्भ्याम्॥
index: 6.3.128 sutra: विश्वस्य वसुराटोः
विश्वस्य वसुराटोः - तस्य विशेषमाह — विआस्य वसु । 'ढ्रलोपे' इत्यतोदीर्घ इत्यनुवर्तते । तदाह — विआशब्दस्येति । विआवस्विति ।वसुग्र्रहेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ॑ इति कोशः ।विआआवसु॑रित्युदाहरणं प्रासङ्गिकम् । 'आदित्याविआवसवः' इत्यमरप्रयोगे तु न दीर्घः,नरे संज्ञाया॑मित्यतः संज्ञाग्राहणापकर्षात् । ननु राट्शब्दस्य कृतचर्त्वस्य निर्देशाज्जश्त्वे सति दीर्घो न स्यादित्यत आह — राडिति अविवक्षितमिति । व्याख्यानादिति भावः । विआआराट् विआआराडिति ।व्रश्चे॑ति षत्वम् । जश्त्वचर्त्वे । चर्त्वनिर्देशस्य पदान्तोपलक्षणत्वाज्जश्त्वपक्षेऽपि दीर्घः द्यपि त्रैपादिकंव्रश्चे॑ति षत्वंचोः कु॑रिति कुत्वात्परम्, तथापि चवर्गान्तव्रश्चादिविषये षत्वमपवादत्वान्नासिद्धम्,अपवादो वचनप्रामाण्यात् इति विआराजाविति । अपदान्तत्वान्न दीर्घ इति भावः ।भ्रस्ज पाके॑क्विप् । 'ग्राहिज्या' इति संप्रसारणं रेफस्य ऋकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । भृस्ज्शब्दः । ततः सुबुत्पत्तिः ।
index: 6.3.128 sutra: विश्वस्य वसुराटोः
विश्वाराढिति । विश्वस्मित्राजत इति सत्सूद्विष इत्यादिना क्विप् । यत्रास्यैतदिति । पदसंज्ञाविषयं इत्यर्थः ॥