छन्दसि च

6-3-126 छन्दसि च उत्तरपदे संहितायाम् अष्टनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसि विषयेऽष्टन उत्तरपदे दीर्घो भवति। आ॒ग्ने॒य॑म॒ष्टा॑क॒पालं॒ नि॑र्व॒पेत् (मै०सं० २.१.३)। अष्टाहिरण्या दक्षिणा। अष्टापदी देवता सुमती। अष्टौ पादावस्या इति बहुव्रीहौ पादस्य लोपे ५.४.१३८ कृते <<पादोऽन्यतरस्याम्>> ४.१.८ इति ङीप्॥ गवि च युक्ते भाषायामष्टनो दीर्घो भवतीति वक्त व्यम्॥ अष्टागवं शकटम्॥

Siddhanta Kaumudi

Up

अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी (अ॒ष्टाप॑दी) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अष्टाकपालमिति । आन्महतः इत्यत्राष्टनः कपाले हविषीति अष्टागवं शकटमिति च व्युत्पादितम्, इदं तु व्युत्वतिविकल्पप्रदर्शनार्थमात्वं वा, दीर्घो वेति ॥