6-3-125 अष्टनः सञ्ज्ञायाम् उत्तरपदे संहितायाम्
अष्टनित्येतस्योत्तरपदे संज्ञायां दीर्घो भवति। अष्टावक्रः। अष्टाबन्धुरः। अष्टापदम्। संज्ञायामिति किम्? अष्टपुत्रः। अष्टभार्यः॥
उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम् । अष्टपुत्रः ॥
<<अष्टनः संज्ञायाम्>> - अष्टनः संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे — उत्तरपदे दीर्घ इति । अष्टापदमिति । संज्ञात्वमन्वेषणीयम् ।