6-3-124 दः ति उत्तरपदे संहितायाम् उपसर्गस्य इकः
index: 6.3.124 sutra: दस्ति
दा इत्येतस्य यः तकारादिरादेशः तस्मिन् परतः इगन्तस्य उपसर्गस्य दीर्घो भवति। नीत्तम्। वीत्तम्। परीत्तम्। अच उपसर्गात् तः 7.4.47 इत्यन्तस्य यद्यपि तकारः क्रियते तथापि चर्त्वस्याश्रयात् सिद्धत्वम् इति तकारादिर्भवति। इकः इत्येव, प्रत्तम्। अवत्तम्। दः इति किम्? वितीर्णम्। नितीर्णम्। तीति किम्? सुदत्तम्।
index: 6.3.124 sutra: दस्ति
इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । खरिच <{SK121}> इति चर्त्वमाश्रयात्सिद्धम् । नीत्तम् । सूत्तम् । घुमास्था <{SK2462}> इतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । जनसन - <{SK2504}> इत्यात्वम् । जातम् । सातम् । खातम् ॥
index: 6.3.124 sutra: दस्ति
दस्ति - दस्ति । 'इकः काशे' इत्यत इक इति,उपसर्गस्य घञ्यमनुष्ये॑ इत्यत उपसर्गस्येति , 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते । तदादिविधिः । द इति षष्ठी ति इत्यत्रान्वेति । तथा च दाधातोरादेशो यस्तकारस्तदादौ उत्तरपदे इति लभ्यते । तदाह — इगन्तत्यादि । ननु नि दात त इति स्थिते 'अच उपसर्गात्तःर' इति दकारादाकास्य तकारे दकारस्यखरि चे॑ति चर्त्वे प्रकृतसूत्रेण उपसर्गस्य दीर्घे नीत्त्मिति रूपं वक्ष्यति, तदयुक्तम्, दीर्घे कर्तव्ये चत्त्र्वस्याऽसिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाऽभावादित्यत आह — चत्त्र्वमाश्रयात्सिद्धमिति । दादेशतकारमाश्रित्य विधियमाने दीर्घे चर्त्वं नाऽसिद्धं, चर्त्वसिद्धं तकारमाश्रित्य विधिबलादित्यर्थ- । सूत्तमिति तु चिन्त्यम्,गतिश्चे॑ति सूत्रभाष्यवार्तिकयोः सुदत्तमित्यत्र 'अच उपसर्गात्तः' इति तत्वे कर्तव्ये सोरुपसर्गत्वं नेति प्रपञ्चितम् । अथ धेङ्गापाधुतभ्यः क्ते आह — घुमास्थेति । धीतमिति । 'दधातेर्हिः' इत्यत्र श्लुविकरणग्रहणान्न हिभावः ।
index: 6.3.124 sutra: दस्ति
दा इत्येतस्यादि । अत्र तकारादिशब्दः कर्मधारयः । तस्मिन्परत इति । यस्मिन्विधिस्तदादौ इति वचनातदादावुतरपदे परत इत्यर्थः । दा इत्येतस्य सम्बन्धी यस्तकारस्तदादावुतरपदे दीर्घ इत्येषोऽर्थो विवक्षितः । नीतमिति । ननु चात्र तकार आदिर्न भवति, यस्तावद् अच उपसर्गातः इति तकारः स अलोऽन्त्यस्य इत्यन्तस्य क्रियते, योऽपि दकारस्य खरि चेति तकारः, सोऽप्यस्मिन्दीर्घे कर्तव्येऽसिद्धः अत आह - अच उपसर्गात इत्यादि । उच्यते चेदं तकारादावुतरपद तैति । यदि चर्त्वमसिद्धं स्याद्, दीर्घविधिरनर्थकः स्यात्, अत आश्रयात्सिद्धं चर्त्वम् । तेन तकार आदिरुतरपदस्य सम्भवतीत्यर्थः । यद्यपीति । अनेनैतद्दर्शयति - द्वितकारपक्षस्याश्रयणे न किञ्चिद्वक्तव्यमिति । सुदतमिति ॥ अवदतं विदतं च प्रदतं चादिकर्मणि । सुदतमनुदतं च निदतं चेति चेष्यते ॥ इत्यनयेष्ट।लऽत्र ददादेशः ॥