इकः काशे

6-3-123 इकः काशे उत्तरपदे संहितायाम् उपसर्गस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इगन्तस्योपसर्गस्य काशशब्द उत्तरपदे दीर्घो भवति। नीकाशः। वीकाशः। अनूकाशः। पचाद्यच्प्रत्ययान्तोऽयं काशशब्दो न तु घञन्तः। इक इति किम्? प्रकाशः॥

Siddhanta Kaumudi

Up

इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः । इकः किम् । प्रकाशः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इकः काशे>> - इकः काशे । नीकाश इति । पचाद्यजन्तत्वात्पूर्वेण न प्राप्तिः ।

Padamanjari

Up

पचाद्यच्प्रत्ययान्तोऽयं काशशब्द इति । नघञन्तः, तत्र पूर्वेणैव सिद्धम् । यथा निगमे - प्राकाशावध्वर्यवे ददातीति । इको वहेऽपीलोः इत्यत्र पूर्वपदमात्रस्येष्यते, इह तूपसर्गस्य तेन द्विरिक इत्युक्तम् ॥