6-3-122 उपसर्गस्य घञि अमनुष्ये बहुलम् उत्तरपदे संहितायाम्
उपसर्गस्य घञन्त उत्तरपदेऽमनुष्येऽभिधेये बहुलं दीर्घो भवति। वीक्लेदः। वीमार्गः। अपामार्गः। न च भवति — प्रसेवः। प्रसारः॥ सादकारयोः कृत्रिमे दीर्घो भवति॥ प्रासादः। प्राकारः। कृत्रिम इति किम्? प्रसादः। प्रकारः॥ वेशादिषु विभाषा दीर्घो भवति॥ प्रतिवेशः, प्रतीवेशः। प्रतिरोधः, प्रतीरोधः। अमनुष्य इति किम्? निषादो मनुष्यः॥
उपसर्गस्य बहुलं दीर्घः स्याद्घञन्ते परे नतु मनुष्ये । परीपाकः । परिपाकः । अमनुष्ये किम् । निषादः ॥
<<उपसर्गस्य घञ्यमनुष्ये बहुलम्>> - उपसर्गस्य । परीपाक इति । पचेर्भावे घञ्, उपधावृद्धिः ।चजोः कु घिण्ण्यतो॑रिति कुत्वम् । निषाद इति । पुलिन्दो नाम मनुष्यजातिविशेषः । निषीदत्यस्मिन् पापमिति निषादः ।हलश्चे॑त्यधिकरणे घञ् । दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः । यद्वा प्रतीहारो द्वारम्, तत्स्थत्वान्मनुष्ये गौणः ।