इकः वहेऽपीलोः

6-3-121 इकः वहेः अपीलोः उत्तरपदे संहितायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वह उत्तरपदे दीर्घो भवति। ऋषीवहम्। कपीवहम्। मुनीवहम्। इक इति किम्? पिण्डवहम्। अपीलोरिति किम्? पीलुवहम्॥ अपील्वादीनामिति वक्त व्यम्॥ इह मा भूत् — दारुवहम्॥

Siddhanta Kaumudi

Up

इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलुवहम् ।<!अपील्वादीनामिति वाच्यम् !> (वार्तिकम्) ॥ दारुवहम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इकः वहे अपीलोः>> - इको वहेऽपीलोः ।अपीलो॑रिति च्छेदः । इगन्तस्येति ।पूर्वपदस्ये॑ति शेषः ।

Padamanjari

Up

ऋषीवहादयः षष्ठीसमासः । वहशब्दः पचाद्यजन्तः ॥ एउपसर्गस्य घञ्यनुष्ये बहुलम् ॥ उपसर्गाद् घञोऽविधानादुतरपदाधिकारेऽप्यत्र तदन्तविधिर्विज्ञायत इत्याह - घञन्त उतरपदे इति । वीमार्ग इति । मृजेर्वृद्धिः । कृत्रिमम् - करणेन निर्वृतम् । पुरुषव्यापाराभिनिर्वृतमित्यर्थः । निषीदत्यस्मिन्पापमिति निषादः, हलश्चेति घञ् ॥