शरादीनां च

6-3-120 शरादीनां च उत्तरपदे संहितायाम् मतौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शरादीनां च मतौ दीर्घो भवति संज्ञायां विषये। शरावती। वंशावती॥ शर। वंश। धूम। अहि। कपि। मणि। मुनि। शुचि। हनु। शरादिः। <<संज्ञायाम्>>८.२.११ इति मतोर्वत्वम्। यवादित्वाद् ८.२.९ व्रीह्यादिभ्यो न भवति॥

Siddhanta Kaumudi

Up

शरावती ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शरादीनां च>> - शरादीनां च । मतौ दीर्घः संज्ञाया॑मिति शेषः । अबह्वच्कत्वात्पूर्वेण न प्राप्तिः । शरावतीति । शरा अस्यां सन्तीति विग्रहः । नदीविशेषस्य नाम ।

Padamanjari

Up