6-3-119 मतौ बह्वचः अनजिरादीनाम् उत्तरपदे संहितायाम्
मतौ परतो बह्वचोऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायां विषये। उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। अमरावती। <<नद्यां मतुप्>>४.२.८५ इति मतुप्प्रत्ययः। <<संज्ञायाम्>> ८.२.११ इति मतोर्वत्वम्। बह्वच इति किम्? व्रीहिमती। अनजिरादीनामिति किम्? अजिरवती। खदिरवती। पुलिनवती। हंसकारण्डववती। चक्रवाकवती। संज्ञायामित्येव — वलयवती॥
अमरावती । अनजिरादीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥
<<मतौ बह्वचोऽनजिरादीनाम्>> - मतौ । मतुप्प्रत्यये परे बह्वचो दीर्घः स्यात्संज्ञायां, न त्वजिरादीनामित्यर्थः । अमरावतीति । इन्द्रनगर्याः संज्ञेयम् । अमरा अस्यां सन्तीति विग्रहः ।मादुपधायाश्चे॑ति,संज्ञाया॑मिति वा मस्य वः । अजिरवतीति । नदीविशेषस्य संज्ञेयम् । वलयवतीति । अनजिरादित्वेऽप्यसंज्ञात्वान्न दीर्घ इति भावः ।
संज्ञायामिति मतोर्वत्वमिति । यद्यप्युदाहृतेषु मादुपधायाः इति वत्वं सिद्धम्, तथापि संज्ञायामत्रापि परत्वादनेनैव वत्वं युक्तम् । प्रत्युदाहरणे च व्रीहिमतीत्यत्रापि नानेन वत्वमित्येतदुपन्यस्तम् । अजिरादिष्वबह्वचां पाठ उषसमस्तार्थः ॥