अमूर्धमस्तकात् स्वाङ्गादकामे

6-3-12 अमूर्धमस्तकात् स्वाङ्गात् अकामे अलुक् उत्तरपदे हलदन्तात् सप्तम्याः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मूर्धमस्तकवर्जितात् स्वाङ्गादुत्तरस्याः सप्तम्या अकाम उत्तरपदेऽलुग् भवति। कण्ठे कालोऽस्य कण्ठेकालः। उरसिलोमा। उदरेमणिः। अमूर्धमस्तकादिति किम्? मूर्धशिखः। मस्तकशिखः। अकाम इति किम्? मुखे कामोऽस्य मुखकामः। स्वाङ्गादिति किम्? अक्षशौण्डः। हलदन्तादित्येव — अङ्गुलित्राणः। जङ्घावलिः॥

Siddhanta Kaumudi

Up

कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकात् किम् । मूर्धशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अमूर्धमस्तकात् स्वाङ्गादकामे>> - अमूर्धमस्तकात् । मूर्धंमस्तकशब्दवर्जितात्स्वाङ्गवाचकात्सप्तम्या अलुक्स्यात्, नतु कामशब्दे उत्तरपदे इत्यर्थः । अत्र संज्ञायामित्यनुवर्तते । अत एवह्मद्द्युभ्यां चे॑त्यत्र ह्मद्ग्रहणमर्थवत् । कण्ठेकाल इति । शिवस्य नाम । उरसिलोमेति । कस्यचिन्नाम । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ।

Padamanjari

Up

उदाहरणेषु प्रत्युदारहणेषु च व्यधिकरणपदो बहुव्रीहिः । अक्षशौण्ड इति । सप्तमी शौण्ड्èअः इति तत्पुरुषः ॥