बन्धे च विभाषा

6-3-13 बन्धे च विभाषा अलुक् उत्तरपदे हलदन्तात् सप्तम्याः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बन्ध इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या विभाषालुग् भवति। हस्तेबन्धः, हस्तबन्धः। चक्रेबन्धः, चक्रबन्धः। उभयत्रविभाषेयम्। स्वाङ्गाद्धि बहुव्रीहौ पूर्वेण नित्यमलुक् प्राप्नोति। तत्पुरुषे तु स्वाङ्गादस्वाङ्गात् च <<नेन्सिद्धबध्नातिषु च>> ६.३.१९ इति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव — गुप्तिबन्धः॥

Siddhanta Kaumudi

Up

हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः हस्तबन्धः हलदन्तेति किम् । गुप्तिबन्धः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बन्धे च विभाषा>> - बन्धे च विभाषा । शेषपूरणेन सूत्रं व्याचष्टे — हलदन्तादिति । बस्तेबन्ध इति । संज्ञायामिति सप्तमीत्तपुरुषोऽयम् । इह तत्पुरुष इति संबध्यते, 'बन्ध' इति घञन्तम्, अन्यत्र तुनेन्सिद्धे॑ति निषेध इति स्पष्ट भाष्ये ।

Padamanjari

Up

स्वाङ्गात् इतदि निवृत्त्म्, सामान्यनायं विधिः । बन्धे इति धातुरेवात्र सहकारेणाऽनुकृतः । नेन्त्सिद्धबध्नादिषु चेति धातावेव प्रतिषेध उक्तः, ततश्च बहुव्रीहिरेवास्य विकल्पस्य विषयः । तत्रापि हस्तबन्धादौ स्वाङ्ए प्रप्तविभाषा, चक्रबन्धादावस्वाङ्गे त्वप्रप्तविभाषेत्युभयत्रविभाषा समापद्यते तपुरुषे तु नैवास्य प्रवृत्तिः इतीमां शङ्कामपनयति बन्ध इति घञन्तो गृह्यत इति । ततश्च तत्पुरुषेऽपि घञन्तस्य वृत्तिर्विरुद्धा, प्रतिषेधस्य बन्धनादौ चरितार्थत्वादिति भावः । उभयत्र विभाषेयमिति । कथमित्याह - स्वाङ्गाद् बहुव्रीहाविति । तत्पुरुषे त्विति । यद्यपि बहुव्रीहावेवास्वाङ्गादप्राप्त इति शक्यं वक्तुम्, तथाप्यस्य तत्पुर्षे प्रवृत्ति दर्शीयितुं तत्पुरुषे चास्य प्रवृत्तिः पूर्वविप्रतिषेधेन अन्यथा बहुव्रीहिरस्यावकाशः, बध्नातिप्रतिषेधस्य च बन्धनादिरषकाशः घञन्ते तु तत्पुरुषे उभयप्रसणेóगे परत्वात्प्रतिषेध एव स्यात् ॥