मध्याद्गुरौ

6-3-11 मध्यात् गुरौ अलुक् उत्तरपदे हलदन्तात् सप्तम्याः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मध्यादुत्तरस्याः सप्तम्या गुरावुत्तरपदेऽलुग् भवति। मध्येगुरुः॥ अन्ताच्चेति वक्त व्यम्॥ अन्तेगुरुः। सप्तमीति योगविभागात् समासः॥

Siddhanta Kaumudi

Up

मध्येगुरुः ।<!अन्ताच्च !> (वार्तिकम्) ॥ अन्तेगुरुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मध्याद्गुरौ>> - मध्याद्गुरौ । गुरुशब्दे परे मध्यशब्दात्सप्तम्या अलुक् स्यादित्यर्थः । असंज्ञार्थमिदम् । अन्ताच्चेति । सप्तम्या अलुक्स्याद्गुरौ परे इत्यर्थः ।

Padamanjari

Up