वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्

6-3-117 वनगिर्योः सञ्ज्ञायां कोटरकिंशुलुकादीनाम् उत्तरपदे संहितायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वन गिरि इत्येतयोरुत्तरपदयोर्यथासंख्यं कोटरादीनां किंशुलकादीनां च दीर्घो भवति संज्ञायां विषये। वने कोटरादीनाम् — कोटरावणम्। मिश्रकावणम्। सिध्रकावणम्। सारिकावणम्। गिरौ किंशुलकादीनाम् — किंशुलकागिरिः। अञ्जनागिरिः। कोटरकिंशुलकादीनामिति किम्? असिपत्रवनम्। कृष्णगिरिः॥ कोटर। मिश्रक। पुरग। सिध्रक। सारिक। कोटरादिः॥ किंशुलक। शाल्वक। अञ्जन। भञ्जन। लोहित। कुक्कुट। किंशुलकादिः॥

Siddhanta Kaumudi

Up

कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्>> - वनगिर्योः । वनगिर्योरिति सप्तमी । कोटरश्च किंशुलुकश्च कोटरकिशुलुकौ, तावादी येषामिति विग्रहः । कोटरादीनांकिंशुलुकादीनां चेति लभ्यते । यथासङ्ख्यमन्वयः । तदाह — कोटरादीनामित्यादिना ।पुरगावण॑मित्युदाहरणानि वक्ष्यन्ते ।

Padamanjari

Up

कोटरावणमिति । वनं पुरगा इति णत्वम् ॥